पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६६ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 राजा–( अंगुलीयकं विलोक्य ) अये, इदं तावदेसुलभस्थान भ्रंशि शोचनीयम् ।

तव सुचरितमंगुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्यायुतमसि लब्धपदं यदंगुलीषु ॥११॥


चना ’ इति । न सुलभमसुलभं तच्च तत्स्थानं च तस्माद्वंशोऽस्यास्ति तत् । शकुंतलांगुलिभ्रंशीत्यर्थः । अत एव शोचनीयम् । तवेति । हे अंगुलीय, नूनं निश्चितं तव सुचरितं पुण्यं ममेव प्रतन्वल्पं विभाव्यते ज्ञायते । अतीन्द्रियस्य धर्मस्य प्रतनुत्वं कथं ज्ञातुं शक्यत इत्यत आह- फलेनेति । अत्यल्पफलत्वेन हेतुनेत्यर्थः । ममेवेत सहोपमा । तेन ममापि पुण्यमल्पं तवापीत्यर्थः । तस्य स्वस्याल्पपुण्यत्वे हेतुः पूर्वं दर्शितः। अस्याल्पपुण्यत्वे हेतुमाह--अरुणेते । यस्मात्तस्या विजितत्रिभुवनसुंदर्या मयि निर्व्याजमनुरक्तायाः पुरः परिस्फुरन्त्या इनांगुलीषु पुरुषांगुलीयस्य स्थूलत्वात्कदाचित्त्कनिष्ठिकायां तत्र शिथिलं सदन्यांगुली तत्रापि तथा विधमेितरांगुल्यामिति बहुवचनाभिप्रायः । प्रेमातिशयेन वा सर्वाङ्गस्पृष्टि- केव सर्वांगुलीषु निक्षेपः । यद्वा विरहातिकृशतया मुकुलीकृतासु पञ्चस्वं गुलीषु विन्यासाद्ब्हुवचनोपपत्ति: । तथा चाभियुक्ताः । “ तस्याः किंचि- त्सुभग तद्भूत्तानवं तद्वियोगाद्येनाकस्माद्वलयपदवीमंगुलीयं प्रयाति ? इति । लब्धपदं महता भाग्योदयेन यथा कथंचित्प्राप्तस्थित्यपि सयुत भासि । कीदृंक्ष्वंगुलीषु । अरुणा नखा यासु ताः ! नखेति तलस्याप्युपलक्ष- णम् । ताश्च ता मनोहराश्च नातिस्थूला नातिकृशा नातिह्रस्वा नातिदीर्धा न वक्रा न सरला इत्यर्थः । एतेन स्वयोग्यत्वं ध्वनितम् । उक्तं च सामुद्रे स्त्रीलक्षणे-- नातिह्रस्वा नातिदीर्घा न स्थूल न कृशा अपि । अवक्राः सरला रक्तनखा रक्ततला अपि ।। कोमलाः सितविन्द्वाक्ष्या भंगुरा दीप्तिम- न्नखाः । तादृगंगुलयो यस्याः सा भवेद्राजवल्लभा ।। ’ इति । अनुमानकाव्य- लिङ्गानुप्रासाः। ननु ममेवेतिवत् ‘ कमलमिव मुखं मनोज्ञमेतत् ’ इत्या-


अये इत्यादि । तवेति । सुचरितं मुक्तविशेषः । प्रतनु अत्यल्पं फलेन प्रयोजनेन ।

अरुणाश्च नखैर्मनोहराश्च तासु अंगुलीष्विति बहुवचनेन स्वविश्लेषानन्तरं शकुन्तलाया:

१ तत् इति कo पु० पाठः।