पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३६४ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 सानुमती-संमोहो क्खु विह्मअणिज्जो ण पडिबोहो [ संमोहः खलु विस्मयनीयो न प्रतिबोधः ]

 विदूषकः--जइ एव्वं अत्थि क्खु समाअमो कालेण तत्तहो दीए। [ यद्येवमस्ति खलु समागमः कालेन तत्रभवत्याः ।

 राजा--कथमिव ।

 विदूशूकः--ण क्खु मादापिदरा भत्तुविओअदुक्खिअं दुहिदेरं देक्खिदुं पारेन्ति । [ न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः ]

 राजा-वयस्य,

स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असंनिवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाता: ॥ १० ॥


संमोहः खलु विस्मयनीयोऽस्वभावत्वात् । न प्रतिबोधः । स्वाभाव्यात्त- स्येत्यर्थः । यद्येवमस्ति खलु समागमः कालेन तत्रभवत्याः पूज्यायाः । न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः शक्नुतः। न खल्विति संबन्धः । स्वप्न इति । तच्छकुन्तलालक्षणं वस्त्वसंनिवृत्त्यै पुनर्निवर्तनभावाय । अनेनोत्कण्ठातिशयो व्यज्यते । अतीतं गतम् । तत्र स्वप्रादिभिश्चतुभिर्वितर्कैरत्यन्तासंभावनीयदर्शनीयत्वं व्यज्यते । तत्र अदृष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम् ’ इत्युक्तेः स्वप्ने


क्षणमपि जीवितुं न शक्यत इति द्योत्यते । स्वप्न इत्यादि । तदित्यनेन पंचमांक प्रतिपादितं शकुन्तलादर्शनसंभाषणादिकं परामृश्यते । तद्दर्शनादिकं स्वप्नः सुप्तिदशाया मनुभूतवरयुवतिदर्शनसंभाषणादिज्ञानं न तु जाग्रदवस्थायां सक्षाद्बुद्धिपूर्वकानुभूतज्ञानम् । नु वितर्के। यथा स्खप्ने तथ्यमिवानुभूतं जाग्रदवस्थायां स दृश्यते तद्वदित्यर्थः। माया ऐन्द्र- जालिकम् । यथा यः कश्चिदैन्द्रजालिकविद्यानिपुणः वरयुवतिदर्शनसंभाषणादिकमुत्पाद्य तथ्यभिवानुभावयति पुनस्तस्मिन् गते सति दर्शनादिकमप्यस्तं गतमेव भवतेि तद्वदि- ‘त्यर्थः । मतिभ्रमः मिथ्याध्यवसायः यथा आदर्शप्रतिबिंबितवस्तुनि तत्त्वबुद्धथा प्रवृत्त्यद्धय-


१ चिरं इत्यधिकं क० पु• । ३ एव मनोरथनामतटाः प्रवाहाः इतेि क्व० पु० पाठः ।