पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३५५ )
टीकाद्वयसहितम्।


 सानुमती-( राजानं दृष्ट्वा ) ठाणे क्खु पञ्चादेसविमाणिदा वि इमस्स किदे सउन्दला किलम्मदि त्ति । [ स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति ।

 राजा-( ध्यानमन्दं परिक्रम्य )

  प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
  अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम् ॥ ७ ॥


सुचिताः = वृत्तमनन्तरोक्तम् । अथ चानेन नायकसात्विकगुणेषु माधुर्यंनामा गुण उपाक्षिप्तः । तल्लक्षणं तु --‘तन्माधुर्यं यत्र गात्रदृष्ट्यादेः स्पृहणीयता । सर्वावस्थासु सर्वत्र’ इति अन्ये आचार्याः प्रवासाविप्रलम्भेऽन्याः कामदशा आहुः—‘अङ्गेष्यसौष्ठ्वम्, चैव पाण्डुता कृशतारुचिः । अधृतिः श्यादनाल्म्बस्तन्मयोन्मादमूर्छना । मृतिश्चेतेि क्रमाज्ज्ञेया दश स्मरदशा इह ॥ ’ इति । ‘ प्रत्यादिष्ट-’ इत्यादिनाङ्गेष्वसौष्ठवम्, ‘क्षीणः ’ इत्यनेन कृशता, ‘ रम्यं द्वेष्टि यथा पुरा’ इति पूर्वपद्येऽरुचिः । ‘ अरुचिर्वस्तुवैराग्यम् ’ इत्युक्तेः । दाक्षिण्येत्यादिनाधृतिः । ‘ सर्वत्रारागिताधृतेिः ’ इत्युक्तेः । स्थाने युक्तं खलु प्रत्यादेशेन निराकरणेन विमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति । तत्स्थान इत्यन्वयः । ध्यानमन्दमित्यनेनालम्बनोक्ता । ‘अनालम्बनता वापि शून्यता मनसः स्मृता’ इत्युक्तेः । प्रथममिति । सारङ्गो हरिणस्तस्येक्षणे इवेक्षणे यस्यास्तया । अनेन तद्दर्शनमात्रेण प्रतिवोध उचित इतेि ध्वन्यते । तत्रापेि प्रिययात्य-


येन स तथोक्तः वामप्रकोष्ठार्पितं सव्यकर्पूरमणिबन्धमध्यभागन्यस्तं पुरुषस्यैककटकधारणं दक्षिणहस्तेनैव कर्तव्यम् । अत्र वामहस्तधारणं तु शकुन्तलादिरहसंभ्रान्ताचित्तत्वेनेति भावः । कांचनं सुवर्णमयं न तु रत्नखचितम् । एकमेव इतरपुरुषविलक्षणार्थं बिभ्रत्। तेजोगुणात् एकवचनेन गुणस्याद्वितीयत्वं व्यज्यते । संस्कारोल्लिखितः शाणोल्लीढः । क्षीणोऽपि स्वाभिलाषलंबनभूतनायिकाविरहपरंपराजनितदुःखानुभवात् कृशोsपि संलक्ष्यते । पूर्वावस्थापेक्षया दर्शनीयो भवति । अनेन कार्श्यं नामावस्थान्तरमुक्तम् । चिन्ताजागरश्वासास्तु वाच्यतयैवोक्ताः । क्षीणोऽपि संलक्ष्यत इति पाठोऽपि व्याख्यातः । ध्यानमन्दमित्यादि । शकुन्तलाचिन्तया शनैः परिक्रम्य । अनेन शून्यदृष्टिता व्यज्यते। विषयालोकनेऽपि तद्विषयप्रवृत्तेरसंभवात् । प्रथममिति। हतहृदयमिति हृदयशब्देन स्वात्माभिधीयते। विबुद्धमिति ज्ञानाधारताप्रतिपादनादात्मनः एव ज्ञानाधारत्वात् ।