पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३५४ )
[ षष्ठः
अभिज्ञानशाकुन्तलम् ।


प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितै
विभ्रत्काञ्चनमेकमेव वलयं श्वासो[१]परक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते[२] ॥ ६ ॥


स्याते ज्ञेयम् । प्रत्यादिष्टेति । प्रत्यादेशो ( दिष्टो ) निराकृतिः (तो) विशेषमण्डनस्य प्रक्षेप्यस्यांगुलीयककुमुदादेर्विधिर्धारणविधिर्येन सः । । अनेन अङ्गान्यभूषितान्येव प्रक्षेप्याद्यैर्विभूषणैः । येन भूषितवद्भान्ति तद्रूपमिह कथ्यते । ’ इतिरूपं ध्वनितम् । वामस्य प्रकोष्ठस्य मणिबन्धोर्ध्वभागस्यार्पितं दत्तम् । ‘प्रकोष्ठे विस्तृतकरे रूपकक्षान्तरेऽपि च । कर्पूरादधरे चापि ’ इति विश्वः । काञ्चनमेवेत्यन्यासंस्पृष्टत्वेनातशीलतत्वं ध्वनितम् । वलयमित्येकवचनं द्वितीयस्य बोदुमसामर्थ्यात् । बिभ्रत् । अभ्यस्तत्वान्न नुम् । वामग्रहणेन बिरुदार्थमवश्यंघारणमुक्तम् । अत एकं मुख्यं सर्वदा सत्वात् । ‘ एके मुख्यान्यकेवलाः’ इत्यमरः । अत एव वामप्रकोष्ठस्यार्पितं दत्तमिति भूतत्वं च । एतन्मात्रेणैव विशेषो ध्वनितः । श्वासेन विरहेित्वादुष्णेनोपरक्तः पाटलो न तु रूक्षोऽधरो यस्य सः | तादृशस्यैव शोभायुक्तत्वं च ध्वनितम् । चिन्तया शकुन्तलागतया यज्जागरणं तेन प्रकर्षेण तान्ते म्लाने नयने यस्य सः । जागरणेन रक्तप्रान्तत्वं तेन च शोभातिशययोगित्वं च ध्वनितम् । एषु स्वभावोक्तिः परिकरालंकारश्च । आत्मनस्तेजोगुणाद्दीप्तिलक्षणात्क्षीणोऽपि कृशोऽपे क्षीणत्वेन नालक्ष्यते । क इव । संस्कारार्थमुद्घृष्टो महामणिरिव । महाशब्देन जात्यत्वं सर्वगुणविशेष्टत्वं महत्त्वं च ध्वनितम् । यथा शाणोल्लिखितो महामणिः स्वतेजसा क्षीणो न दृश्यते तद्वदित्युपमा । अनेन महामण्युपमानेनास्य क्षीणत्वेऽप्यन्तःसारता सर्वदा दृश्यमानत्वेऽप्यवितृप्तता ध्वनिता । प्रप्रेति पृष्टेति न्तान्तेति क्षीक्ष्येति छेकश्रुतिवृत्त्यनुप्रासाः । अथ चिन्तेति संकल्पः, जागरेति निद्राच्छेदः , क्षीण इति तनुता, प्रत्यादिष्टेति विषयनिवृत्तः, इति कामावस्था अपि


प्रत्यादिष्टेत्यादि । प्रत्यादिष्टः निरस्तः 1 विशेषमंडनस्य विशिष्टालंकरणस्य विधिः करणं


  1. श्वासापरक्ताधरः इति क्व० पु० पाठः
  2. संलक्ष्यते इति क्व० पु० पाठः ।