पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३५० )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 प्रथमा-अज्ज, कति दिअहाइं अह्मणं भित्तावसुणा रट्ठिएण भट्टिणीपाअमूलं पेसिदाणं। इत्थं अ णो पमदवणस्स पालणकम्मसमप्पिदं । ता आअन्तुअदाए अस्सुदपुव्वो अह्मेहिं एसो बुत्तन्तो। [ आर्य, कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः। इत्थं च नौ प्रमद्वनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।]

 कंचुकी---भवतु । न पुनरेवं प्रवर्तितव्यम् ।

 उभे-अज्ज, कोदूहलं णो । जइ इमिणा जणेण सोदव्वं कहेदु अअं किंणिमित्तं भट्टिणा वसन्तुस्सवो पडिसिद्धो । [ आर्य, कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वयं किंनिमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ]

 सानुमती--उस्सवप्पिआ क्खु मणुस्सा गरुणा कारणेण होदव्वं। [ उत्सवप्रियाः खलु मनुष्याः । गुरुण कारणेन भवितव्यम् ।

 कंचुकी-बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपथं नायतं शकुन्तलाप्रत्यादेशकौलीनम् ।


शयवर्णनीयतया चैवमुत्तरम् । आर्य, कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः । कतिचिद्दिनानीत्यन्वयः । इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्यामेष वृत्तान्तः | भवतु । यज्जातं तज्जातमित्यर्थः । आर्य, कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यम् । अस्य श्रवणयोग्यमित्यर्थः । तत्कथयत्वयं किंनिमित्तं भर्त्रा वसन्तोसवः प्रतिषिद्धः । उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । प्रत्यादेशो निराकृतिस्तल्लक्षणं यत्कौलीनं लोकवादः।“ स्यात्कौलीनं लोकवादः ’ इत्यमरः । श्रुतं राष्ट्रियमुखा-


प्रतिवद्ध इति भावः । बहुलीभूतमित्यादि । कौलीनं शकुन्तलानिराकरणहेतुना


१ गदाइ ( गतानि ) इत्यधिकं क्वे० पु० । २ पेसिआणं भङ्गिणो पदमूलादे। एथ वरदणं इदं च नाम ( प्रेषितयोर्भातुः पादमूदत्र चरंस्योः । इदं च नाम ) इति ई० पू० पाठः । ३ सअलं पडिझम्म अप्पिदं ता ( सकलं परिकर्म पितं तस्मात् ) इति क० पु• पाठः । ४ हो ( भवति ) इत्यधिकं क्व० पु० । ५ अब्ज ( आर्यः) इति क० पु० पाठः।।