पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४२ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


( ततः प्रविशति चूतांकुरमवलोकयंती चेटी । अपरा च पृष्ठतस्तस्याः )

प्रथमा--

आतम्महरिअपण्डुर जीविद सत्तं वसन्तमासस्स ।
दिट्ठो सि चूदकोरअ उदुमङ्गल तुमं पसएमि ॥ २ ॥
[ आताम्रहरितपाण्डुर जीवित सत्यं वसन्तमासयोः ।
दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ ]


विचलनम् ’ इति । ततः प्रविशतीति । उद्यानपालिकयोरिति सूचितत्वात्तयोः प्रवेशकः ( शः ) । आतम्मोति । आताम्रहरितपाण्डुरजीवितसत्यं वसन्तमासयोः। दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि । अत्र प्रथमसंवोधनेन स्वभावोक्तिः । सत्यमिति शपथे । ‘ सत्यं च शपथे तथ्ये' इति विश्वः । वसन्तमासयोर्जीवितेति रूपकम् । सत्स्वप्यन्येषु प्रसू-


हर्यमित्येष उत्सवः परिकीर्तितः " इति । चूअभित्यादि । अत्र चूतशब्देन मदनरयामोघस्त्ररूपान्नकलिकाभिधीयते । हृषितपित्तमित्यनेन पिकानां पंचनखरोद्गमप्रतिबन्धकशिशिरकाले नीते सति स्वाभिमतास्वादनद्रव्यसंपत्तिमद्वसंतर्त्वागमनसूचकतया चूतकलिकाया हर्षकारणत्वमिति यावत् । अनेन मदनस्य सामग्रीसंपत्त्या इतरXX लक्षणपदोत्कर्षं उक्तः । षट्चरणचरणभग्नमित्यनेन चूतकलिकायश्चिरादपि येनकेनापि मदनप्रतिबंधहेतुना स्वारसिकविकासाभावात् । मकरंदास्वादनत्वरत्या भ्रमरचरणैर्दलितम् । चरणैरित्यनेन मुखक्रियमाणविरहिजनपरमोद्दीपकविविधझंकारकारणं सूच्यते । जीवितसदृशमित्यनेन इतरपुष्पाण्यवयवभूतानि चूतं तु प्रः प्राणXमिति यावत् । वसन्तमासस्य सकलपुष्पाद्याधारभूततया पुष्पापचादिविविक्रीडाकरणसमुचितकालस्य । मंगलमिव शोभनमिव हर्पकारणचिवेति यावत् । ( व्याख्यानान्तरं) ऋतुमंगलमिव उद्दीपकतया मानिन्या मानखंडकस्य बसंतर्तोर्मंगलमिव विघ्ननिवारकमिव यथा मंगलं सर्वत्राद्यं तथा वसंतस्यापि चूतमित्यर्थः । अनेन वसंतस्याद्यदशा व्यज्यते । तदेवाह- हर्षितपिककभित्यादिना । हर्षितपिककम् अभिमतवसंतर्त्वागमगसूचनादानंदितकोकिलम् । जीवितसदृशं प्राणसमम् । वसन्तस्य सर्वस्वमित्यर्थः। वसंतस्थ साधनीयं सर्वे चूतेनैव साक्ष्यमिति भावः । षट्चरणभग्नमित्यनेन चूनानां कौरवादिसद्भावेन मकरंदपानाप्रहेण


१ चूअं हरिसिअपिअभं ‘जीविंदसरिसं वसंदमासस्य । साचलाचलणभरगं उडुमंगलं अविक्ष पेक्खभि ( शृतं हर्षितपिकलं जीवितसदृशं वसंतमासस्य । षट्चरणचरणभन्नमूनु- मंगलमिव पश्यामि । ) इति क० पु० पाठः ।