पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३४० )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


 पुरुषः--भट्टालक, इदो अद्धं तुह्माणं शुमणोमुल्लं होदु । [ भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ]

 जानुकः--एत्तके जुज्जइ। [एतावद्युज्यते ]

 श्यालः—-धीवर, महंत्तरो तुमं पिअवअस्सओ दाणिं मे संवुत्तो। कादम्बरीसंक्खिअं अह्माणं पढमसोहिदं इच्छीअदि । ता सोण्डिआपणं एव्व गच्छामो [ धीवर, महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसखित्वमस्माकं प्रथमशोभितमिष्यते । तच्छौण्डिकापणमेव गच्छामः ]

( इति निष्क्रान्ताः सर्वे )

इति प्रवेशकः

( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः )

 सानुमती--णिब्बट्टिदं मए पज्जाअणिव्वत्तणिज्जं अच्छरातित्थसण्णिउज्झं जाव साहुजणस्स अभिसेअकालो त्ति। संपदं इमस्स राएसिणो उदन्तं पच्चक्खीकरिस्सं । मेणआसंबन्धेण स-


एवासूयया पश्यतीति । भट्टारक, इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु । सुमनोमूल्यं पुष्पसूत्रमिति विनयोक्तिः । एतावद्युज्यते । प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरी मदिरा तत्सखित्वमेकत्र पानेनास्माकं प्रथमशोभितमद्ययावत्पूर्वं न जातमिष्यते । तच्छौण्डिकापणमेव गच्छामः । प्रवेशक इति । प्रवेशकलक्षणं तु सुधाकरे--‘यन्नीचैः केवलं पात्रैर्भाविभूतार्थसूचनम् ॥ ‘अङ्कयोरुभयोर्मध्ये स विज्ञेयः प्रवेशकः ॥’ इतेि । ‘अङ्कयोरुभयोर्मध्ये’ इत्यनेन प्रथमाङ्कनिषेधः । क्वचित्पुस्तके ‘तृतीयः प्रवेशकः’ इति पाठः । तत्र विष्कम्भद्वयं तृतीयचतुर्थयोरङ्कयोः पष्ठे तृतीयः प्रवेशक इत्यर्थः । निर्वर्तितं मया पशुनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्याभिषेककाल इति ।‘ पर्यायोऽवसरे क्रमे ' इत्यमरः ।


दिल्यादेशात्तकारस्य दकारः । तथेति निष्क्रान्ताः सर्वे । अत्रांगुलीयकप्रदर्शनार्थो


१ भव ( भर्तारः ) इति व० पु० पाठः। २ एदं ( एतत् ) इति क० पु० पाठः । ३ महत्तलप्रियवअरसो ( महत्तरप्रियवयस्यः ) इति क्व० पु० पाठः । ४ सदिखत्रे ( साक्षिकं ) इति क० पू० षठः। ५ सौहिदं ( सौहृदं ) इति कo पु० पाठः । ६ पविसमो ( प्रविशामः ) इति क्० पु० पाठः । ७ पुरुषः-दह (तथा ) इत्याधिकं कु० पू० । ८ इत्तंतं ( वृत्तांतं ) इति ई० पू० पाठः ।