पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ६]
( ३३१ )
टीकाद्वयसहितम्।


 सूचकः --एशे णाम अणुग्गहे जे शूलादो अवदालिअ हत्थिक्कन्धे पडत्ठाविदे । [ एप नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे आतिष्ठापितः ]

 जानुकः--आवृत्त, पलिदोशं कहेहि । तेण अङ्गुलीअएण भट्टिणो शम्भदेण होदव्वं। [ आवुत्त, परितोषं कथय | तेनाङ्गुलीचकेन भर्तुः संमतेन भवितव्यम् |

 श्यालः--ण तस्सिं महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि । तस्स दंसणेण भट्टिणो आभिमदो जणो सुमराविदो । मुहुत्तअं पकिदिगम्भीरो वि पज्जुस्सुअणअणो आसि । [ न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः। मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् ]

 सुचकः-शेविदं णाम आवुत्तेण । [ सेवितं नामावुत्तेन ।

 जानुकः—णं भणाहि । इमश्श कए मच्छिआभत्तुणो त्ति । ( इति पुरुषमसूयया पश्यति ) [ ननु भण । अस्य कृते मात्स्यिकभर्तुरितेि ]


एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः! परितोषं कथय । समृद्ध्यादित्वादात्वम् (?) तेनांगुलीयकेन भर्तुः संमतेन भवितव्यम् । न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् । सेवितं नामावुत्तेन सेवा दर्शितेत्यर्थः । ननु भण । अस्य कृते मात्स्यिकभर्तुः । मत्स्येन जीवन्तीति मात्स्यिकास्तेषां भर्तुरस्य पुरुषस्य कृते सेवितम् । धनप्राप्तिस्त्वेतान्निष्ठेति सेवनमेतदर्थमेव जातमिति भावः । अत


१ अणु(भागह्रदे ( अनुगृद्दतिः ) इति क० पु० पाठः। २ पारेसिअं एव्व कर्वेदि ( पारितोषिकमेव कथयति ) इति क० पु० पाछः । ३ को वि अहिमदो भट्टिणा जणो सुगरिव । जं (कोऽप्यभिमतौ भनें जनः स्मृतः । यत ) इति क८ पु० पाठः । ४ पक्षस्सु (पर्य४) इति क. पु• पाठः। ५ फणाहि ( फण) इति क० पु० पाठः। ६ मच्छसत्तुणो ( मत्स्यशत्रोः ) इति क० पु० पाठः ।