पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३८ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


शुणो मुहं वा देक्खिश्शशि । [ एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते । गृध्रवलिर्भविष्यसि, शुनो मुखं वा द्रक्ष्यसि |

( प्रविश्य )

 श्यालः-सुअअ, मुञ्चेदु एसो जालोअजीवी । उववण्णो क्खुं अंगुलीअअस्स आअमो । [ सूचक, मुच्यतामेष जालोपजीवी । उपपन्नः खल्वंगुलीयस्यागमः ।

 सूचकः -जह आवुत्ते भणादि । [ यथावुत्तो भणति ]

 द्वितीयः--एशे जमशदणं पविशिअ पडिणिवुत्ते । (इति पुरुषं परिमुक्तवन्धनं करोति ) [ एष यमसदनं प्रविश्य प्रतिनिवृत्तः ॥

 पुरुषः--( श्यालं प्रणम्य ) भट्टा, अह कीलिशे मे आजीवे । [ भर्तः, अथ कीदृशो म आजीवः ]

 श्यालः—एसो भट्टिणा अंगुलीअअमुल्लसम्मिदो पसादो वि दाविदो । ( इति पुरुषाय स्वं प्रयच्छति ) [ एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः ।

 पुरुषः--( सप्रणामं प्रतिगृह्य ) भट्टा,अणुग्गहिद ह्मि । [भर्तः, अनुगृहीतोऽस्मि |


शुनो मुखं द्रक्ष्यसि वा । सूचक, मुच्यतामेष जालोपजीवी । उपपन्नः खल्वङ्गुलीयस्यागमः । यथावृत्तो भणति | एष यमसदनं प्रविश्य प्रतिनिवृत्तः । अथ कीदृशो म आजीवः । एष भर्त्रांगुलीयकमूल्यसंमितः प्रसादोऽपि दापितः । मोचनमपिशब्दः समुच्चिनोतेि । स्वं धनम् । ‘स्वोऽस्त्रियां धने’ इत्यमरः । भर्तः, अनुगृहीतोऽस्मि ।


१ किल से ( किलास्य ) इति कo पु० पाठः । २ फणादि ( फणति ) इति

क० पु० पाठः । ३ तुझकेलए मे जविदे ( युष्मदीयं मे जीवितं ) इति क०

पु० पाठः । ४ अत्यो पारतोसिओ पदाविदो ( अर्थः पार्तोषिकः

प्रदापितः ) इति क० पु० पीठः । ५ अर्थे इति ई० पू० पाठः ।