पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३३४ )
[ षष्टः
अभिज्ञानशाकुन्तलम् ।


प्रथमः--किं शोहणे ब्रह्मणेति कलिअ रज्जा पडिग्गहे दिण्णे ।

{ किं शोभनो ब्रह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः }

पुरुषः--सुणध दाणिं । हगे शक्कावदालम्भन्तलवाशी धीवले ।

[ श्रुणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः]

द्वितीयः-- पाडच्चला, किं अह्मेहेिं जादी पुच्छिदा । [ पाटच्चर,

किमस्माभिर्जातिः पृष्टा ]

श्यालः--सूअअ, कहेदु शव्वं अणुक्कमेण । मा णं अन्तरा पडिबन्वह ।[ सूचक, कथयतु सर्वमनुक्रमेण। मैनमन्तरे प्रतिबन्धय ।
उभौ--जं आवुत्ते आणवेदि। कहेहि । [ यदावुत्त आज्ञापयति । कथय ]
पुरुषः -अहके जालुग्गालादीहिं मच्छबन्धणोबाएहैिं कुडुम्बभलणं कलेमि। [ अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ]

इत्युक्तेर्भावेते संबोधनम् । असौ नीचः सुतरां ग्रामीण इति तेन मिश्रपदं गौरवार्थमुक्तम् । हगे अहम् । ‘ वयमोर्हगे " इति सूत्रेणाहमित्यस्य हगेआदेशः नेदृशकर्मकारी किं शोभने ब्राह्मण इति कलयित्वा ज्ञात्वा रज्जा राज्ञा प्रतिग्रहो दत्त इति सोपहासम् । मागध्याम् ‘प्यन्यज्ञक्षां ज्ञः ’ इति सूत्रेण ज्जः । सुणध दाणिं श्रुणुतेदानीम् ’ इह हचोर्हस्य ’ इति धः ।“ इदानीमो दाणिम् ’ इति दाणिमादेशः । अहंशक्रावताराभ्यन्तरवासी धीवरः । शक्रावतार इति तीर्थनाम । तत्संबन्धाXमनामापि । एतदेव पूर्वाङ्गे शचीतीर्थशब्देनोक्तम् । पाटच्चर चौर । स्युः पाटच्चरः स्तेनः’ इति हैमः । किमस्माभिर्जातिः पृष्टा । सूचकेति रक्षिणोरेकतरस्य नाम कथयतु सर्वमनुक्रमेण । मैनमन्तरे मध्ये प्रतिबंधय । यदावुत्त आणवेदि आज्ञापयति । ‘ दिरिचेचोः’ इति दिः । ‘ भगिनीपतिरावुत्तः’ इत्यमरः । कथय । अहकेऽहम् । अह-


१ कृत्वा इति कृ० ५० पाठः ।१ तिथधाशी ( तीर्थवासी ) इति व० पु० पठः।

१ दें ( ते ) इत्याधिकं क० पू० । ४ अन्तरा पडिबउँह ( अन्तरा प्रतिबनतम् )

इति क० पु० पाठः । ५ ( इति तूष्णीं तिष्ठतः ) दयालः-कटूहि कहेहि

( कथय कथय ) इत्यधिकं क्० पू० ।।