पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
(३२७)
टीकाद्वयसहितम्।

 गौतमी-(स्थित्वा) वच्छ सङ्गरव, अणुगच्छदि इअं क्खुणो करुणपरिदेविणी सउन्दला । पच्चादेसपरुसे भत्तुणि किं वा में पुत्तिआ करेदु[१] । [वत्स शार्ङ्गरव, अनुगच्छतीयं खलु नः करुणपारिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ]

 शार्ङ्गरवः-(सरोषं[२] निवृत्य) पुरोभा[३]गे, किं स्वातन्त्र्यमव लबसे ।

(शकुंतला भीता वेपते)

 शर्ङ्गरवः-शुकुन्तले,

यदि यथा वदति क्षितिपस्तथा
 त्वमसि किं पितुरुत्कलय् त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः
 पतिकुले तव दास्यमपि क्षमम् ॥ २७ ॥

तिष्ठ[४] । साधयामो वयम् ।


संबन्धः । वत्स शार्ङ्गरव, अनुगच्छतीयं खलु नोऽस्मान्करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे निराकृतिनिष्टरे । 'प्रत्यादेशो निराकृतिः' इत्यमरः । भर्तरि किं वा मे पुत्रिका करोतु । पुरोभागे दोषदर्शिानि । 'दषैकदृक्पुरोभागी' इत्यमरः। यदीति । क्षितिपो राजा यथा वदति तथा त्वमस्युत्कुलयातिक्रान्तकुलमर्यादया त्वया पितुः किं प्रयोजनमित्यर्थः । तुः पूर्वतो व्यतिरेके । अथात्मनः शुाचि पवित्रं व्रतं नियमं वेत्सि यादे तदा पतिकुले भर्तृगृहे तव दास्यमपि क्षमं समीचीनम् ।


प्रसिद्धिरित्यर्थः । पुरोभागिनि दोपमात्रदंर्शिनि तिरस्कररूपदोषमैव गृह्णासि अपरित्यज्य भर्तृत्वगुणं न गणयसीत्यर्थः । स्वातंत्र्यं स्वच्छंदवृत्तिम् । यदीत्यादि । क्षितिपो राजा अनेन क्षितिप एव न्याय्यान्यय्यविचारणाभ्यां निग्रहानुग्रहकर्ता स एवं करोति चेद स्माभिः किं कर्तव्यमिति भावः । यथा वदति मदीयकलत्रं न भवतीति तथा त्वमसि ।


  1. करेदि ( करोति ) इति क्क० पु० पाठः ।
  2. सन् इत्यधिकं क्क० पु० ।
  3. आः पुरोभगिनेि किमिदं इति क्क० पु० पाठः ।
  4. तिष्ठ तिष्ठ इति क्क० पु० पाठः ।