पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३१३ )
टीकाद्वयसहितम्।


राजा-( शकुन्तलां निर्वर्ण्य | आत्मगतम् )

इदमुपनतमेवं रूपमक्लिष्टकान्ति 'प्रथमपरिगृहीतं स्यान्न वेति व्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु पारिभोक्तुं नैव शक्नोमेि हातुम् ॥ १९ ॥

( इति विचारयन्स्थितः ) प्रतीहारी–अहो धम्मवेक्खिआ भट्टिणो । ईदिसं णाम सुहो वणदं रूवं देक्खिअ को अण्णो विआरेदि। [अहो धर्मापेक्षिता भर्तुः। ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ।


सगुणः परिचक्षते॥” इति । निर्वर्ण्य दृष्ट्वा । इदमिति। एवमुपनतमयत्नप्राप्तम् । न क्लिष्टा कान्तिर्यस्य तत् । अनेन प्रथमं तारुण्यं ध्वनितम् । इदं रूपं प्रथमगृहीतं स्यान्न वा स्यादिति व्यवस्यन्विचारयन् । ’ अध्यवस्यन् ' इति पाठे स्वव्यवसायंं न जानन् । खलु निश्चयेन । परिभोक्तुं न शक्नोमि निश्चयेन हातुं नैव शक्नोमीत्येवं प्रकारेण रतेरनुसंधानं ध्वनिंतम् । कः किमिव । विभाते प्रभाते भ्रमरः अन्तस्तुषारो हिमं यस्य तादृक्कुन्द पुष्पमिव । उपरि हिमस्याच्छादकस्य शापस्थानीयत्वात्त्यागाभावः । ससंदेहोपमानुप्रासाः अत्र प्र (वि ) भात इत्युक्तेस्तदनन्तरं रविकिरणैर्हिमे नीते मकरन्दभोगोऽवश्यम् ( श्यः) एवमिहाप्यभिज्ञानदर्शनेन शापे गते तत्स्वीकारोऽवश्यमिति द्योतयन्योपमया रतेः स्थायित्वदार्ढ्यं ध्वनितम् । मालिनी वृत्तम् । एतेन संशयनामकं भूषणमुपक्षिप्तम् । तल्लक्षणं तु –- अनिश्चयान्तं यद्वाक्यं संशयः इदमित्यादि । इदमित्यनेन सर्वावयवप्रत्यक्षता कथिता । उपनतमुपस्थितम् । अक्लिष्टकान्ति अनवद्यसौन्दर्यम् । अनेन ‘‘ रत्नहारी तु पार्थिवः ” इति न्यायेनापरित्याज्यत्वमुक्तम् । अव्यवस्यन् । अनिश्चिन्वन् । कुन्दं कुन्दकुसुमम् ।अंतस्तुपारमित्यनेन भ्रांतिहेतुरुक्तः । अत्र विपर्ययो नामालंकारः । तदुक्तं तद्विपर्ययो विचार इव विपर्ययः । विचारस्यान्यथा भावः तथा दृष्टोपयोगतः । सन्देहात्कल्पते वस्तु स विज्ञेयो विपर्ययः ।। दृष्टोपयोगिनो वस्तुनः संदेहादन्यथा कल्पनं विपर्ययः । अत्र दुष्यन्तस्य शकुन्तलां प्रतेि परिग्रहसंदेहात् विपर्ययः । अहो इत्यादि ।


१ वेत्यव्यवस्यन् इति क० पु० पाठः । २ अट्टो ( अहो ) इति ई० पू० पाठः ।