पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( ३०९ )
टीकाद्वयसहितम्।


  णावेक्खिओ गुरुञणो इमाए ण हु पुच्छिदो अ बन्धुञणो ।
  एक्कक्कमे व्व चरिए भणामि किं एक्कमेक्कस्म ।। १६ ।।

  [ नापेक्षितो गुरुजनोऽनया न खलु पृष्टश्च बन्धुजनः ।
 ::परस्परस्मिन्नेव चरिते भणामि किमेकैकम् ।]

 शकुन्तला--( आत्मगतम् ) किं णु क्खु अज्जउत्तो भणांदि ।[ किं नु खल्वार्यपुत्रो भणति ]

 राजा--किमिदमुपन्यस्तम् ।

 शकुन्तला--( आत्मगतम् ) पाव क्खु डु बञणोवण्णासो ।[ पावकः खलु वचनोपन्यासः ॥


किमपि वक्तुकामास्मि | न मे वचनावसरोऽस्तीति भविष्यदाक्षेपः । तस्यैवोपादानं कथामिति । [ णावेक्खिओ इति ।] नापेक्षितो गुरुजनो ऽनया न खलु पृष्टश्च बन्धुजनः क्वचित्पुस्तके ’ इमाए तुइ पुच्छिदो [ण ] बन्धुजणो ’ इति पाठः। त्वया पृष्टो न बन्धुजन इत्यर्थः ) उभयोरप्यपराधाविष्करणम् । एक्कक्कमे परस्परस्मिन् व्व एव चरिते भणामि किमेकमेकम् । परस्परानुरागेण भवद्भ्यामिदं विहितम् । तत्रैकः पर्यनुयोज्यो न भवतीति भावः । “ एक्कक्कमण्णोण्ण ’ इति देशीकोशः ‘ णश्चे अवि अव्वे अवधारणे ' इति सूत्रेण व्यकारोऽवधारणे । एक्कस्येति ‘ क्वचिद्वितीयादेः इतेि द्वितीयार्थे षष्ठी । गाथेयम् । तेन ' इमाए ' ' इत्येकारस्य ' एओ सुद्धापआवसाणंमि लहू ’ इति लघुत्वम् । किं नु खल्वार्यपुत्रो भणतेि । पावकोऽग्निः खलु वचनोपन्यास इति


इदमनयोः श्लाघ्यमिति योग्यतया संबंधस्य नियतविषयमध्यवसानं चेत्ससं भवति । प्रकृते शकुन्तलादुष्यन्तयोः संबंधस्य समत्वकथनात्समं भवति । अज्जेत्यादि । णावेखीओ इति । चरिते विवाव्यापारे ‘‘ कन्या वरयते रूपं माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः । इति न्यायेन बहुजनानुज्ञापेक्षिते विवाहकर्मणीत्यर्थः । अत एवोक्तं नापेक्षितो गुरुजन बन्धव इति । एकैकमेव केवलावक्वेयुषाम् । एकैकस्य किं भणामः न किमपि वक्तव्यमस्ति । मिथः समयं युवामेव जानीथः । तथैव परस्परं वर्तेथामित्यभिप्रायः । तत्कथमिति । किमिदमुपन्यस्तमिति


३ तुए इमाएण पुच्छिआ बन्धू। एक्कक्कं एव्व चरिदे ( त्वयानया न पृष्ठाः बन्धवः ।

एकैकमेव चरिते ) इति क्व० पु० पाठः। २ फणादि ( फणति ) इति क्व० पु० पाठः।