पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३०२ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


शारद्वतः-जाने भवान्पुरप्रवेशादित्थंभूतः संवृत्तः । अहमपि
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ ११ ॥
शकुन्तला-( निमित्तं सूचयित्वा ) अम्महे, किं मे वामेदरं णअणं विष्फुरंदि । [ अहो, किं मे वामेतरन्नयनं विस्फुरति ]

नूनमित्येवमादिभिः । उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः॥ " इत्युक्तेर्मन्येशब्दस्योत्प्रेक्षाद्यौतकस्वेऽप्यत्र न तथा । तत्सामस्यभावात् । उपमयैव गतार्थत्वात् । तेनात्र मन्येशब्दस्य बुद्धित्वमात्रमर्थः । तदुक्तं राजानकरुचकेन—‘ अस्याश्वेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः । किंतून्प्रेक्षासामस्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति । यथा---‘अहं त्विन्दुं मन्ये' [इति]। अनुप्रासाः । वक्तुर्वैराग्यं ध्वन्यते । शिखरिणीवृत्तम् । अहमपीति श्लोकेनान्वेति । अभ्यक्तमिति । अहं सुखसङ्गिनं जनमीदृशमवैमि । त्वं त्वग्निपरीतगृहामिव जानासि । अहमप्येतादृशमित्यपिशब्दार्थः । एतादृक्त्वं च विशिष्टोपमारूपम् । कः कमेव । स्नातोऽभ्यक्तं तैलाभ्यक्तमिव । अनेन पापश्लिष्टत्वं ध्वन्यते । शुचिरशुचिमिवेत्यनेन पत्यादिषु स्नेहादिविद्धत्वं (?) ध्वन्यते । प्रबुद्धः सुप्तमित्यवेत्यनेनाज्ञानाविद्धत्वं व्यज्यते । स्वैरगतिर्बद्धमिवेत्यनेन प्रयत्नसहस्रानयने परवशंवदत्वं ध्वन्यते । मालोपमेयम् । तेन पारतंत्र्यलक्षणो भिन्नोऽव (त्र ) गम्यः (?) सामान्यधर्मः। छेकवृत्यनुप्रासौ । स्नातोऽभ्यक्तमिव शुचिरशुचिमिव प्रबुद्धः सुप्तमिव स्वैरगतिः संहि (य ) तमिव' इति पठित्वा प्रक्रमभङ्गद्वयं परिहरणीयम् । निमित्तमपशकुनम् । अम्महे इति निर्वेदे । ‘अम्महे हर्षे इति सूत्रे ‘हीमाणहे विस्मयनिर्वेदयोः इतेि सूत्रान्निर्वेद इत्यनुवर्तते । कि मे वामेतरदक्षिणं नयनं विस्फुरतेि । किं मे वामं दाक्षिणं नयनम् ’ इति पाठे वामं प्रतीपम् । विरोधाभासः ।


चितविविक्तेन सार्वकालिकासेवितविजनेन मनसा उपलक्षितः जनाकीर्णं प्रजासंकुलं हुतवहपरीतमनलाक्रान्तमिव प्रवेष्टुं दुःसहमिति यावत् स्थाने युक्तम् । अभ्यक्तमिवेति। शुचिः सद्वृत्तः अशुचिमसद्वृत्तम् । सुखसंगविषयासक्तम् । सुखसंगिनमित्यनेन राजरक्षित


१ स्थाने इति झ० पु• पाठः। ३ अनिमित्तं इति इ० पु• पाठः । ३ थिअरेदि ( विकरोति ) इति क्व० पु० पाठः।।]