पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ३०० )
[ पञ्चमः
अभिज्ञानशाकुन्तलम् ।


किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधा
मित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ९ ॥

 प्रतीहारी-—सुचरिदणन्दिणो इसीओ देवं सभाजइदुं आअ- देत्ति तक्केमि ।[ सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ]


सावलम्बीति खेदानुभाव एव । किं तावदिति । व्रतिनां नियमवतामत ए- वोपोढमत्यूढमधिकं तपो येषाम् ।’ उपोढः कथितोऽत्यूढे समासन्ने विवा हिते ’ इति धरणिः । ईदृशां तपस्विनाम् । विशेषणेनैव विशेष्यप्रतिप त्तेर्न तदुपादानम् । तपो विघ्नैर्विघ्नकर्तृभी राक्षसादिभिः । साध्यवसानेयं लक्षणा । तस्या विघ्नातिशयः फलं दर्शितम् । किमिति वितर्के । उत धर्मारण्यचरेषु धर्मवनगेषु प्राणिषु जन्तुषु । धर्मपदेन ऋषीणां महत्त्व(त्त्वं) सूचयता चेष्टितस्यात्यन्तमनुचितत्वं ध्वन्यते । अत एव केनचित्पामरा दिनासत् । वाचापि वक्तुमशक्यमिति भावः । चेष्टितं कृतम् । आहो- स्विन्ममापचरितैर्वीरुधां लतानां प्रसवः पल्लवपुष्पादिर्विष्टम्भितः प्रति- बद्धः। ’ पुष्पं फलं पत्रं च वृक्षाणां प्रसवं विदुः’ इति धरणिः । तदु क्तम्--’ राज्ञोऽपचारात्पृथिवी स्वल्पसस्या भवेत्किल । अल्पायुषः प्रजाः सर्वा दरिद्रा व्याधिपीडिताः ॥ ’ इति । तपतप इति स्विसवो इति छेकानु प्रासवृत्तिश्रुत्यनुप्रासाः । शार्दूलविक्रीडितं वृत्तम् । षष्ठीसप्तम्योरभेदान्न विभक्तिप्रक्रमभङ्गः । विशेषणप्रक्रमभङ्गोऽपि नाशङ्कनीयः । आदौ विशे- षणद्वयं ततस्तदभाव इत्येव क्रमस्य विवक्षितत्वात् । सुचरितनन्दिन


प्रियसत्यवचनैः राज्यभरणजनितशोकान्मुक्तां(क्ता?) भवामः । तदुक्तं "शोकान्मुक्तः पुनर्नवः “ इति । किमित्यादि । उपोढतपसां संप्राप्ततपसां व्रतिनामृषीणाम् । विघ्नैः ईप्सितार्थान् विशेषेण घ्नन्तीति विघ्नाः प्रतिबंधकाः तैः । तपः स्वधर्मानुवर्तनं -दूषितं नाशितम्। किं वितर्के । धर्मारण्यचरेषु तपोवनवर्त्तिषु विषये केनचिदज्ञाततपः- प्रभावेन येनकेनचिद्धूर्तेन असत् अन्याय्यं कर्म चेष्टितमाचरितम् । वीरुधां प्रसवः


१ सुअरिदाहिणंदिणो ( सुचरिताभिनंदिनः ) इति क्व० पु० पाठः । २ संभावेदुं ( संभावयितुं ) इति क्व० पु० पाठः।।