पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( २९९ )
टीकाद्वयसहितम्।


 राजा--एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति)

 प्रतीहारी-अहिणवसम्मज्जणसस्सिरीओ सण्णिहिदहोमधेणू अग्गिसरणालिन्दो । आरुहदु देवो । [ अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः। आरोहतु देवः |

 राजा---( आरुह्य परिजनांसावलम्बी तिष्ठति ) वेत्रवति, किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः।


क्षमान्वितः ॥ ' इति । विवादं परस्परकलहं शमयसि । रक्षणाय कल्पसे प्रभवसि । भयात् ’ शत्रुभ्यो धनदानेन ' इत्यादि रक्षणं बहुप्रकारम् ! अतनुषु बह्वीषु संपत्सु । नामेति संभावनायाम् । ज्ञातयः सन्तु भवन्तु । बन्धुकृत्यकारिण इत्यर्थः । तुः पूर्वतो विशेषे । सति विभवेऽसति च विभवे । प्रजानां प्रजासु विषये । षष्ठीसप्तम्योरभेदाद्बन्धूनां ज्येष्ठबन्धूनां कृत्यममार्गान्निवर्तनं कलहशमनं रक्षणं च तत्त्वयि परिसमाप्तं त्वयैव निष्पाद्यते । नान्येनेत्यर्थः । पूर्वार्धार्थो हेतुत्वेनोपात्तः। काव्यलिङ्ग- व्यतिरेकानुप्रासाः । पूर्वार्धे यमकं च । वृत्तमनन्तरोक्तम् । अनेन च पद्येन पूर्वं लोकहेतोरिति यदुक्तं तदेव विवृतम् । नवीकृताः । अधिका रचिन्तन इति शेषः । अत एवास्माभिस्तत्र ’ अशान्तमनाः ’ इति व्याख्यातम् । यतस्तस्यैवानुवादोऽयम् ‘क्लान्तमनसः ’ इति । अभिनवं नूतनं यत्संमार्जनं तेन सश्रीकः सशोभः । संनिहितहोमधेनुरिति । विशे षणद्वयेन पावित्र्यातिशयो द्योत्यते । अग्निशरणालिन्दोऽग्निहोत्रगृहबहि र्द्वारप्रकोष्ठः । ‘ प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके ' इत्यमरः । स्वभावोक्तिः । तस्य खेदविनोदं द्योतयति । आरोहतु देवः । परिजनां


ग्रहणे मोक्षणे तथा ॥ स्वयं समर्थो यः सोऽयं राजा साक्षान्निरर्गलः ॥ " इति विवादं कलहं प्रशमयसि रक्षणाय कल्पसे समर्थो भवसि । अनुग्रहस्य राज्ञ एवाधिकारित्वादिति भावः। अतनुषु प्रचुरेषु विभवेष्यै(ष्वै)श्वर्येषु सत्सु ज्ञातयो बांधवाः संतु भवंत्विति संभावना- याम्। नाम प्रसिद्धौ । किं तैर्निग्रहानुग्रहासमर्थैरिति वाक्यशेषः । प्रजानां जनानां बंधु- कृत्यं विमार्गनियमनेष्टप्रापणानिष्टनिवारणादिकम् । त्वयि तु त्वय्येव परिसमाप्तम् । एते इत्यादि । क्लांतमनसः श्रमभरेण क्लिष्टमानसाः पुनर्नवीकृताः वैतालिकयोः


१ वयम् इत्यधिकं क्व० पु० । २ एसो ( एष ) इत्यधिकं क्व० पू० । ३ स्थित्वा इति क्वo पु• पाठः । ४ मत्समीपं इति क्व० पु० पाठः ।