पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २९८ )
[ पंचमः
अभिज्ञानशाकुन्तलम् ।


द्वितीयः

नियमयसि कुमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८ ॥

यस्मात्पादपो वृक्षः । पादांश्चरणान्पाति रक्षतीति च अत एव नः वृक्षादिपदोपादानम् । मूर्ध्नाग्रभागेनाथवोत्तमाङ्गेन । तीव्रमुष्णं मध्याह्नसं भवमनुभवति । संश्रितानामध उपविष्टानामथ चाश्रितानां छाययातपाभा वेन पालनेन च परितस्तापमौष्ण्यं तापं खेदं च शमयतीति चेन्न । व्यवहारसमारोपात्समासोक्तिः । “ छाया स्यादातपाभावे प्रतिबिम्बार्क- योषितोः । पालनोत्कोचयोः ? इत्यादि विश्वः । तापोऽभितापे दवथौ खेदे च ’ इत्यजयः । काव्यालिङ्गाक्षेपदृष्टान्ताः । वृत्तिश्रुत्यनुप्रासौ । मालिनीवृत्तम् । नियमयसीति । आत्तदण्डो गृहीतदण्डः प्राप्ताभिमानश्च ’अभिमाने ग्रहे दण्डः ’ इति विश्वः । कुमार्गप्रस्थितानुद्धतान्नियमयासि विनीतान्करोषि । मार्गस्थान्करोषीत्यर्थः । तत्स्वरूपं भृगुसंहितायाम्- ’तदर्थं सर्वभूतानां गोप्तारं धर्ममात्मजम् । ब्रह्मतेजोमयं दण्डमसृजत्पर मेश्वरः ॥ ’ इति । तत्प्रयोगविषये विशेषोऽपि तत्रैव --'स्वराष्ट्रे न्याय- वृत्तिः स्याद्भृगु (दुग्न ) दण्डश्च शत्रुषु । सुहृत्सु तिलस्निग्धेषु ब्राह्मणेषु


किमुतेति भावः । मूर्ध्ना शिरसा । सर्वस्य गात्रस्य शिरः प्रधानम् ” इति सर्वावय वप्रधानभूतेन शिरसा । तीव्रं कूरं पत्रशाखापक्शोषणकरणसमर्थमिति यावत् । उष्णम् अनुभवति निर्विकारं वहति । वर्तमानव्यपदेशेनाद्याप्यनुभवतीति प्रातःकालादारभ्य सायंकालपर्यंतं निरंतरतापानुभवः सूच्यते राज्ञस्तु मध्याह्ने अंतःपुरविहरणदिना किंचिद्विश्रांतिरस्ति वृक्षस्य न तथेति भावः । संसृतानां जंतूनां परितापं परितः सर्वावयवतापम् । च्छायया च्छाययेत्येकवचनेन प्रभातमध्याह्नसायंकालेषु स्वस्य मंदतीव्रातपानुभवसमयेऽपि स्वकीयच्छायागुणस्यैकरूपता द्योत्यते । शमयति नाशयति । हिशब्दश्चकारार्थः । शमयति चेति यावत् । अनेन तीव्रोष्णानुभवसमयस्य संंसृतजंतुपरि- तापशमनकालस्य चाव्यवधानं द्योत्यते । नियमयसीत्यादि । आत्तदंड: गृहीतनीतिः। विमार्गप्रस्थितान् विरुद्धमार्गगतान् अन्यायवर्तिन इति यावत् । नियमयसि निवारयसि तदुक्तं मानसोल्लासे अनुगृहे निग्रहे च दाने चादानकर्मणि । प्रवृत्तौ च निवृत्तौ च


{c|१ विमार्गे इति क्व० पु० पाठः ।}}