पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः५]
( २९७ )
टीकाद्वयसहितम्।


प्रथमः

स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥ ७ ॥


खेद इति वैतालिकवचसा स्तौति--स्वसुखेति । नैकाहं न पञ्चषाहमपि तु प्रतिदिनं प्रत्यहम् । निरन्तरमित्यर्थः । त्वं चैकहेतोर्लोककारणात् । लोकनिमित्तामिति यावत् । ‘हेतुर्ना कारणं बीजम्' इत्यमरः। खिद्यसे परेि तप्यसे तत्रार्थं हेतुमाह-स्वस्मिन्यत्सुखं तत्र निरभिलाषो निर्गतवाञ्छः । प्रासङ्गिकसुखायापि न प्रवृत्तिरिति भावः । अत्र खिद्यस इति खिद परि तापे अस्य तुदादिकस्य कर्मकर्तरि प्रयोगः । तथा च वामनः-कर्म कर्तरीत्यनुवर्तमाने खिद्यस इति च खिद्यत इति च प्रयोगो दृश्यते । सो ऽपि कर्मकर्तर्येव द्रष्टव्यो न कर्तर्यदेवादिकत्वात्खिदेः' इति । दुर्गसिंहस्तु खिद दैन्ये ’ इति दैवादिकत्वं मन्यते । तथा च क्षीरतरङ्गिण्याम् ’ पद गतावेतदनन्तरमंत्रैव खिद दैन्य इति दुर्गः ’ इति । अत एव मल्ल भट्टेनाख्यातचन्द्रिकायामुक्तम् --' ताम्यति श्राम्यति ग्लानौ खिन्ते खि न्दति खिद्यते ’ इति । अथवेति पूर्वाक्षेपे । एवंविधैव ते वृत्तिर्वर्तनम् । हि


स्वसुखेत्यादि । प्रतिदिनं दिने दिने न त्वेकदिन इति यावत् । अनेन सार्वकालिक- जनसंरक्षणजागरूकता सूच्यते । स्वसुखनिरभिलाषः स्वस्य सुखेषु सुखनिमित्तकतत्तदृतु योग्यसार्वकालिकान्तःपुरविहरणादिक्रीडाभेदविषये निरभिलाषः अतिमात्राभिलाषशून्यः । लोकहेतोः प्रजानिमित्तम् । अनेन जनसंरक्षणनिमत्तक एव खेदानुभवः न तु प्रतिपक्षनिमि- त्तक इति राज्ञः कृतकृत्यतया निष्कंटकं सार्वभौमत्वं ध्वन्यते । खिद्यसे दिवारात्रं तत्तद्वर्णो- चितमार्गप्रवर्तकतया दूयसे । वर्तमानव्यपदेशेन अद्यापि खिद्यस इति । आतपवाहुल्या- त्संचारायोग्यतया सर्वजंतूनां विश्रमस्थलापेक्षिककाले मध्याह्नेऽपीत्यनवरतजनसंरक्षणै- कपरता द्योत्यते । तव राजशब्दश्च आज्ञामात्रं जागर्ति सुखानुभवस्तु जनानामेवेति भावः । ते रक्षाशुल्कषड्भागादातुस्तवेति यावत् । त इत्येकवचनेन तवैव नान्यस्येति इतरराजवैलक्षण्यमुक्तम् । वृत्तिर्मरणपर्यंतं व्यापारः । एवंविधैव सुखदुःखानुभवपूर्वक- जनसंतापशमनपूर्वैव । एतद्दृष्टान्तेन स्फुटयति-अथवा अनुभवतीत्यादिना । अथवा तथाहीति संभावनायाम्। पादपः वृक्षः अचेतनसामान्य इति यावत् । पादपशब्देन बहुजंत्वाधारता प्रकाश्यते । चेतनेतरपुरुषविलक्षणासाधारणत्वद्विधं प्रति सकलजनाधारतायां