पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ५]
( २९५ )
टीकाद्वयसहितम्।


 कंचुकी--यदाज्ञापयति देवः। ( इति निष्क्रान्तः )

 राजा(--उत्थाय ) वेत्रवति, अग्निशरणमार्गमादेशय ।

 प्रतीहारी-इदो इदो देवो । [ इत इतो देवः |

 राजा-( परिक्रामति । अधिकारखेदं निरूप्य ) सर्वः प्रार्थि तमर्थमधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखान्तरैव

औत्सुक्यमात्रमवसाययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय न च श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ६ ॥


त्थितम् । निवेदयन्ति याः कार्यं प्रतीहार्यस्तु ताः स्मृताः ॥ ’ इति । अग्नि शरणमग्निगृहम् ।‘शरणं गृहरक्षित्रोः' इत्यमरः । इत इतो देवः । दुखान्तरैव दुःखावधिकैव । ‘दुखोत्तरा’ इति पाठे दुःखाधिकेत्यर्थः । औत्सुक्येति । प्रतिष्ठा सर्वोत्कृष्टं गौरवम् । ‘प्रतिष्ठा स्थानमात्रके । गौरवे ' इति विश्वः । सा कर्त्री । एनमित्यग्रे वक्ष्यमाणत्वादस्येति विपरिणम्यते । अस्य राज्ञ औत्सुक्यमात्रं य (या व ) द्विषयजन्यामुत्कण्ठामवसाययति समाप्तिं नयति । अन्यजनस्य तु यत्किञ्चिद्विषयिणि ( णी ) समुत्पन्नो त्कण्ठा तथैव तिष्ठति तत्तद्विषयालाभात् । राज्ञा तु ( ज्ञस्तु ) फललाभा


अनन्तरकर्तव्यज्ञः । अथ किमित्यंगीकारे । अग्निशरणमार्गम् । अग्निहोत्रगृहमार्गम् । निरूप्य अभिनीय । सर्वः सर्वो जन: प्रार्थितमीप्सितम् । अधिगम्य संप्राप्य । सुखी संपद्यते । अव्याकुलो भवति । राज्ञां नृपाणां न तु स्वस्यैकस्यैव भवतीति यावत् । तु पुनरन्यथा । कुतः कस्माद्धेतोरित्यत आह । औत्सुक्यमित्यादिना । प्रतिष्ठा आस्पदं राज्यलाभ इत्यर्थः । औत्सुक्यमात्रं तत्तत्पदार्थोत्कंठामात्रम् । अवसादयति नाशयति तत्तद्वस्तुलाभे सति तत्तद्विषयकेच्छाया निवृत्तेरिति भावः । लब्धपरिपालनवृत्तिः


१ कोऽत्र भोः । (प्रविश्य ) प्रतिहारी-आणवेदु देवो (आज्ञापयतु देवः ) राजा-- इत्यधिकं क्व० पु० । २ आदर्शय इति क्वo पु० पाठः । ३ किंतु इत्यधिकं क्व० पु• ४ अवसादयति इति क्व० पु• पाठः । ५ एवम् इति क्व० पु• पाठः ।