पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २३२ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


मात्मा प्रकाशमत्यर्थे विशदो निर्मलो जातः । पूर्वं समान्यतोऽन्यदीयत्वमुक्त्वा परिग्रहीतुमस्तामित्यनेन नियतविषयत्वेन परकीयत्वं वदतावश्यप्रस्थापनीयत्वं ध्वनितम्| इदमेवोत्प्रेक्षायां न्यासेन सह साधर्म्यं ज्ञेयम् |प्रत्यर्पितो न्यासो येनेदृश इवेत्युत्प्रेक्षा । इन्द्रवज्ञा वृत्तम्|| श्रीमदभिज्ञानशाकुंतलटीकायमर्थद्योतानिकायां चतुर्थोऽङ्कः समाप्तः|


तादृशीं परकीयधनभूतां कन्याम् । अद्येदानीम् । “ भर्ता रक्षति कौमारे’ इति न्यायेन । समये प्राप्ते परिग्रहीतुः पत्युः सम्प्रेष्य प्रस्थाप्य स्थितवतो मम अन्तरात्मा अंतःकरणं प्रत्यर्पितन्यस इव प्रत्यर्पितः प्रतिसमर्पितः न्यासः उपनिधिर्येन स तथोक्तः ! प्रकाममतिशयेन विशदः स्वस्थो जातः संवृतः ।

इति श्रीरमणवेङ्कटाचलेश्वरपादारविन्दपूजकवैखानसकुलतिलककौशिकगोत्रवेङ्कटभट्ट

'इतिगोत्रक्रमागतभट्ट्बिरुदश्रीतिरुमलाचार्यपुत्रेण ध्वनिप्रस्थानपरमाचार्याष्ट-

भाषाचक्रवर्तिश्रीनिवासाचार्येण विरचितायामभिज्ञानशाकुन्तलव्या

ख्यायां चतुर्थोऽङ्कः समाप्तः ।