पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २७८ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


( शकुन्तला पितुः पादयोः पतति )

 काश्यपः--यदिच्छामि ते तदस्तु ।
 शकुन्तला-( सख्यौ उपेत्य ) इला, दुवे वि मं समं एव्व परिस्सजह । [ हला, द्वे अपि मां सममेव परिष्वजेथाम् ॥
 सख्यौ-' तथा कृत्वा) साहि, जइ णाम सो राआ पच्चाहि ण्णाणमन्थरो भवे तदो से इमं अत्तणामहेअङ्किअं अंगुलीअअं दंसोहि । [ सखि, यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्तत स्तस्येदमात्मनामधेयांकितमंगुलीयकं दर्शय |
 शकुन्तला--इमिणा संदेहेण वो आकल्पिद ह्यि। अनेन संदेहेन वामकम्पितास्मि |
 सख्यौ-मा भाआहि । सिणेहो पायसंकी । [ मा भैषीः । स्नेहः पापशंकी ]


गृहकार्यव्यग्रतया त्वया शोको न गणनीय इत्यर्थः । पितृवियोगदुःखमवि स्मरणीयप्रकृत्या व्यज्यते । चतुर्थचरणार्थे प्रति पूर्वोक्तद्वयं हेतुत्वेन योज्यम् । उपमासमुच्चयकाव्यलिङ्गश्रुतिवृत्यनुप्रासाः। हरेिणीवृत्तम् । अनेन संग्रहलक्षणमङ्गसुपक्षिप्तम् । तल्लक्षणं तु--‘सामदानार्थसंयोगः संग्रहः परिकीर्तितः ’ इति । द्वावपि मां सममेकदैव परिष्वजेथाम् । तथा कृत्वेत्येक परिष्वज्य । सखि यदि नाम स राजा प्रत्यभिज्ञान : मन्थरो भवेत् । प्रत्यभिज्ञाने तत्तेदंतावगाहिनि सेयं शकुन्तलेति ज्ञाने मन्थरः शिथिलो झटित्येतादृग्ज्ञानरहित इत्यर्थः ततस्तस्येदमात्मनामधे याङ्कितमंगुलीयकं दर्शय । अनेन रूपलक्षणमङ्गमुपक्षिप्तम् । तल्लक्षणं तु दशरूपके--'रूपं वितर्कवद्वाक्यम् ’ इति । यदीतेि विंतकोंक्तेः । अनेन यः संदेशेन कम्पितास्मि । अनेन संभ्रमलक्षणमङ्गमुपाक्षिप्तम् । तद्युक्षणं तु दशरूपके--'शङ्कात्रासौ च संभ्रमःइति । मा भैषीः स्नेहः पापशङ्की । अनेनाधिवललक्षणमङ्गमुपक्षिप्तम् । तल्लक्षणं तु-- ९ कपटेनाप्तिसंधानं


स्थाने । यदिति । यत्पट्टमहिषीत्वं सत्पुत्रलाभश्च तदस्त्विति आशिषि लोट् ।


१ यदिच्छसि इति क्क० पु० पाठः । स ( ख ) इति क्क० पु० पाठः ।

३ अदि ( अति ) इत्यधिकं क्क० पु०