पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २७७ )
टीकाद्वयसहितम्।


 काश्यपः-वत्से, किमेवं कातरासि ।

अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीवार्क प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ १९ ॥


अभिजनेति । अभिजनवतः कुलवतः ! ‘अभिजनान्वयौ ' इत्यमरः । अत्रैतदनुक्तेरपि सिद्धेस्तात्पर्यानुपपत्त्या लक्षणया सामान्यशब्दो विशिष्टं कुलं लक्षयति । तदुत्पत्तिमत्वं त्वर्थाक्षिप्तम् । एतदयादानदाक्षिण्यधर्मभीरुत्वादि धर्मशतं व्यनक्ति । अथवाभिजनपदेन तदुत्पन्ना जना लक्ष्यन्ते । तद्वतस्तद्वहुजनवतोऽभितः समन्ततो जनवतः स्वजनवत इति वा । अनेन विशेषणेन सकलबन्धुजनकृत्यचिन्तया गृहिणीगतोऽतिशयो व्यज्यते । एवंभूतस्य भर्तुः श्लाध्ये सर्वोत्कृष्टे । तादृशप्रेम्णानुमितत्वात् । गृहिणीपदे गृहिणीस्थाने । अथवा गृहिणीलक्षणाधिकारे । अथ च गृहिणीति त्र्यक्षरं पदं तत्र । जगति गृहिणीपदवाच्यत्वमेवेत्यर्थः । अतः ‘गृहिणी गृहमुच्य ते ? इत्युक्तेस्तदीयं सर्वं गृहं त्वदायत्तमिति भावः । स्थिता चापल्यनिवृत्त्या स्थिरीभूता । अत एव भर्तुरित्युचितपदोपन्यासः । भरतीति भर्ता सक लजगद्भरणशीलस्येति षष्ठ्या गृहिणीगतोऽतिशयो व्यज्यते । तावता किं तत्राह-विभवेत । एवंभवः संपत्तिस्तेन गुरुभिर्गरिष्ठैः । अनेन कृत्यानाम नन्यनिर्वाहित्वं सूचितम् । तस्य भर्तुः प्रतिक्षणं कृत्यैः । इत्यव्ययबहुवच नाभ्यां विशिष्टकार्याणामन्यता ( तमता ) ध्वन्यते । व्याकुला व्यग्रा । स्वगृहकार्यसहस्रनिमग्ना विगलितवेद्यान्तरा भविष्यसीति भावः । अचि- राच्छीघ्रं प्राची प्राग्दिगिव त्वं पावनमर्कमिव तनयं प्रसूय चेति । चः समुच्चये ! स स्वयं पूत इति किं वक्तव्यम् । पावयतीति पावनः । तन्नाम ग्रहणेनान्येऽपि पावना भवन्तीति भावः । अर्कोपमानत्वं (त्वेन) तनयस्य जगद्विलक्षणतेजस्वित्वं लोकत्रयातिक्रान्तपौरुषत्वं चतुर्दशभुवनगयिमानः कीर्तित्वमत एव चक्रवर्तित्वमित्यादि धर्मसहत्रं व्यज्यते । हे वत्से, मम पितुर्विरहजां वियोगजां शुचं न गणयिष्यसि । न तु सा न भविष्यति ।


अभिजनवत् इत्यादि । अभिजनवतः कुलीनस्य श्लाघ्ये पूज्ये गृहिणीपदे पट्टमहिषी