पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २७६ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 गौतमी-एत्तिओ वहूजणस्स उवदेसो । जादे एदं क्खु सव्यं आधारेहि । [ एतावान्वधूजनस्योपदेशः । जाते, एतत्खलु सर्व- मवधारय }
 काश्यपः-वत्से, परिष्वजस्व मां सखीजनं च ।
 शकुन्तला-ताद, इदो एव्व किं पिअंवदामिस्साओ सहीओ णिवत्तिस्सन्ति । [ तत, इत एव किं प्रियंवदामिश्राः सख्यो निवर्तिष्यन्ते ]
 काश्यपः-वत्से, इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति ।
 शकुन्तला-( पितरमाश्लिष्य ) कहं दाणिं तादस्स अड्डादो परिभष्टा मलअंतरूम्मूलिया चन्दणलदा विअ देसन्तरे जीविअं धारइस्सं । [ कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतरून्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये ]


आधिर्मानसपीडायां प्रत्याशायां च वन्धने । व्यसने चाप्यधिष्ठाने ? इति विश्वः । वृत्तमनन्तरोक्तम् । एतावान्वधूजनस्योपदेशः | जाते पुत्रि, एतत्खलु सर्वमवधारय । तात; इतः [ एव] किं प्रियंवदामिश्राः सख्यो निवर्तिष्यन्ते। कथामिदानीं तातस्याङ्कात्क्रोडात् [ परि] भ्रष्टा मलयतरून्मूलिता चंदनलतेव देशांतरे परदेशे स्थानांतरे च जीवितं धारयिष्ये । कथमिदानीमितिं संबंधः । उपमया तत्रत्यैर्वहुमानिताया अपि पितृवियोगाविस्मरणं ध्वन्यते ।


सापत्न्यव्यवहारादिकं न दर्शनीयमिति यावत् । विप्रकृतापि घिगतं प्रकृतं प्रकृतिर्यस्याः सा तथोक्ता कोपितापीत्यर्थः । रोपणतया कोपनतया प्रतीपं प्रतिकूलं मा गमः मा गच्छ पतिरेव बुधैः स्त्रीणां देवतेति निगद्यते “ इति न्यायात्कोपसमये भर्तुश्चित्तरंजकानुकूलव्यवहारादिकमेव कर्तव्यमित्यर्थः । परिजने उपजीविजने भूयिष्टमतिशयेन दक्षिणा अनुकूल। भोगेषु सुखेषु अनुत्सेकिन अनुत्कंटिता अगर्विता भवेत्यनुषज्यते । एवमुक्त प्रकारेण गृहिणीपदं गृहिणीव्यपदेशं यान्ति व्रजंति / वामाः प्रतिकूलाः कुलस्य वंशस्याधयः अपकर्षहेतवः । यथा आधयतु देहस्यापकर्षहेतवस्तथा कुलस्येति यावत् । आधिस्तु व्यसने चित्तदुःखेऽधिष्ठानवंधयोः । ” इति वैजयंती ।


१ एव्व ( एव ) इत्यधिकं क्व० पु० । २ तडुन्मूलिदा

( तटोन्मूलिता ) इति क्व० पु० पाठः ।।