पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २७५ )
टीकाद्वयसहितम्।


 शार्ङ्गरवः-न खलु धीमतां कश्चिदविषयो नाम ।
 काश्यपः - सा त्वमितः पतिकुलं प्राप्य

शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १८ ॥

कथं वा गौतमी मन्यते ।


न खलु धीमतामिति कण्ववाक्यं प्रत्यर्थान्तरन्यासः | सा त्वमित्यस्य श्लोकेनान्वयः । शुश्रूषस्वोन । गुरूञ्श्वश्रूश्वशुरादीञ्शुश्रूपस्व सेवां कुरु । सपत्नीनां जने समूहे प्रियसखीनामिव वृत्तिं कुरु प्रियसखीवद्वर्तस्व । विप्रकृता न्यक्कृतापि।' निकारो विप्रकारः स्यात् ' इत्यमरः । रोपणतयेर्प्यया भर्तुः प्रतीपं वैपरीत्यं मा स्म गमो यासीः । परिजने सेवकवर्गे भूयिष्ठमतिशयेन दक्षिणानुकूला भव | भाग्येषु सपत्नीदैवेष्वनुत्सेकिन्यस्खलिता । भवेत्यनुपज्यते । अस्या भाग्यं मम नास्तीति दुःखं न कार्यमित्यर्थः । अथ च भाग्येषु निजेष्वनुत्सेकिनी निर्गर्वा ममैतादृशं सौभाग्यामितेि गर्वो न कार्यः इत्यर्थः । उदोमर्दनोत्क्षेपणगर्वस्खलनेषु ’ इतेि गणपाठात् । एवं सति युवतयः स्त्रीमात्रम् । त्वं तु किं पुनरिति भावः । गृहिण्याः पदं स्थानम् । यद्वा गृहिणीति पदमधिकारम् । यान्ति प्राप्नुवन्ति । अन्या वामाः स्त्रियः कुलस्याघयः | भवन्तीत्यर्थः । वामौ वत्गुप्रतीपौ वा ' इत्यमरः । रूपक मर्थान्तरन्यासो वा । कुलस्याधयः कुलाधिष्ठानानि । वामा बक्राणीत्यर्थः ।


स्थावरजंगमात्मकयहुविधज्ञाः लोकवृत्तांताभिज्ञा इति यावत् । तपोमहिम्नेति भावः । लोकशब्देन लोकवृत्तांतः कथ्यते । यदाह वामनः ‘लोकवृत्तं लोकः' इति शुश्रूषस्वोते। शुरून् पूजार्हान् शुश्रूषस्व परिचर । सनंतः शृणोतिः पश्चिर्यायां रूढः । " ज्ञाथुस्मृदृशां सनः ’ ” इत्यात्मनेपदम् । ‘‘ शुश्रूषा श्रोतुमिच्छायां परिचर्यावधानयोः । ” इति विश्वः । अत्र शकुन्तलायाः काश्यपेन गुरुजनशुश्रूषाशिक्षावचनव्याजेन पूर्वं गुरुजनभूत दुर्वासःशुश्रूषावैपरीत्यदोषजनितशापात् पंचमाङ्के दुष्यन्तस्य शकुन्तलाविषयकस्मरणाभावे वीजमन्त्रोपन्यस्तमित्यवगन्तव्यम् । एवं सर्वकाव्येषु वीजानुगुण्यं बुद्धिमतोह्यम् । सपत्नीजने प्रियसखीवृत्तिं प्रियसखीव्यापारं चाटुभाषणादिवृत्तिभिति यावत् । वृतिमित्यनेन प्रियभाषणादिचेष्टयैव प्रियसखीदर्शनं कर्त्तव्यं न तु मनःपूर्वकमिति भावः ।


१ तस्वमितः परं इति व० पु० पाठः ।