पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २७४ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 शार्ङ्गरवः-गृहीतः संदेशः।
 काश्यपः--वत्से, त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् ।


भाग्यायत्तं दैवायत्तं तत्खलु निश्चितं वधूवन्धुभिर्न वाच्यम् । वचनमात्रेण तदसंपत्तेरिति भावः । श्रुतिवृत्त्यनुप्रासैौ । शार्दूलविक्रीडितं वृत्तम् ।


शकुन्तलाया: । व्यभिचारित्वदोषापनयनार्थं गांधर्वविवाहस्य बंधुजनानपेक्षितया तदानीं दुष्यन्तकथितं ‘गांधर्वेण विवाहेन वह्नयो राजर्षिकन्यकाः' इत्यादि दृष्टांतवाक्यं दुष्यन्तस्य प्रकाश्यते । स्नेहप्रवृतिं परिणतानुरागविशेषात् कालाक्षमलक्षणौत्मुक्यविशेषव्यापारं च साधु विचिंत्येत्यनुषज्यते । अनेन ‘‘ तपति तनुगात्रि मदनस्त्वाम् ” इत्याद्यनुरागप्रकाशनार्थे भणितदुष्यन्तवाक्यं राज्ञः स्मार्यते । दारेषु कलत्राणां मध्ये । सात्वच्छपथवाक्यानुरागविशेषमात्रविश्वासवती सेति यावत् । इयं बालेयमिति यावत् । त्वया मान्यप्रतिपत्तिपूर्वकं मान्या पूज्या प्रतिपत्तिर्ज्ञानं तत्पूर्वकं तत्पुरःसरं दाराणां मध्ये प्रतिपत्तेर्मान्यत्वं तु पट्टमहिषीभावः । दृश्या द्रष्टुं योग्या । निष्फलंकमहाकुलीनस्वसौंदर्यसौशील्यादिगुणविशेषैः पट्टमहिषीभावेन त्वद्विशेषकटाक्षपतनार्हा । यद्वा सेयं दारेषु सत्स्वपि अन्यप्रतिपत्तिपूर्वकं मा दृश्या कलत्रांतरसाभ्यगौरवपूर्वकं न दर्शनीयेत्यपि योजयंति। “ प्रति । पत्तिस्तु गौरवे । प्राप्तिप्रवृत्त्यौः प्रागल्भ्ये प्रतिभाज्ञानयोरपि । " इयुक्तत्वात् । तर्हि लौके सधैर्वधूवंधुभिः सामान्यप्रतिपत्तिरेव प्रार्थ्यते तत्कथमिदानीं विशेषप्रतिपत्तिः प्रार्थ्यत इत्यत आह-अतः परमिति । अतः विशेषप्रतिपत्तेः परं भिन्नं सामान्यप्रतिपत्त्यादिकमिति यावत् । खलुशब्दो हेत्वर्थकः । यतो हेतोरभाग्यायत्तं दुरदृष्टाधीनम् । त्वयाभाग्यायत्तमित्यत्र संधावकारप्रश्लेषः कार्यः अभाग्यायत्तमिति । ततो हेतो तत्सामान्यप्रतिपत्यादिकं वधूवंधुभिर्वधूनामिष्टतमैर्जनौरिति यावत् । न वाच्यं न कथनयिम् । अभाग्यफलत्वान्न प्रार्थनीयमिति यावत् । अत्र श्लोके मालानामालंकारः । तदुक्तम् " ईप्सितार्थप्रसिद्धयर्थं क्रियते यत्र सूरिभिः प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ " इति । अत्र शकुन्तलापरिग्रहे काश्यपेन स्वप्रीतिः दुष्यन्तस्य पुनरभिवृद्धिः तादृप्रूपायाः शकुन्तलाया लाभः इत्यादीनि बहूनि प्रयोजनानि प्रतिपादितानि । वत्सेत्यादि । इदानीं सांप्रतं ‘‘ पिता रक्षति कौमारे भर्ता रक्षति यौवने “ इति न्यायेन पतिगृहगमनसमये प्राप्ते सतीति यावत् । अनुशासनीया निष्कलंकास्मत्कुलस्य कलंकित्वापातनभिया शिक्षणीया । पश्य विभावय । आमंत्रणे लोट् । ममांकसमीपे आगच्छेति यावत् । अत्र शिक्षावचनस्य श्रवणार्हत्वात् शृण्विति वक्तव्ये पश्येति दर्शनक्रियाभिधानं श्रौत्रश्रुतं तु यदा कदाचिचित्तास्वास्थ्यकाले विस्मृतं स्यात् साक्षान्नयनाभ्यां दृष्टं तु हठाद्विस्मृतं तथा न भवतीति पश्येति प्रत्युक्तमित्याभिप्रायः । वनौकसोऽपि अरण्यवासिनोऽपि लोकज्ञाः


१ पश्य इत्यधिकं क्व० पू० । २ लोकज्ञाः इति क्व० पु० पाठः ।