पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २६९ )
टीकाद्वयसहितम्।


 काश्यपः--तेन हीमां क्षीरवृक्षच्छायामाश्रयामः ।

( सर्वे परिक्रम्य स्थिताः )

 काश्यपः-( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्त स्य युक्तरूपमस्माभिः संदेष्टव्यम् । ( इति चिन्तयति )
 शकुन्तला-(जनान्तिकम् ) हला, पेक्ख। णलिणीपत्तन्तरिदं वि सहअरं अदेक्खन्ती आदुरा चक्कवाई आरडदि दुक्करं अहं करेमि त्ति । [ हला, पश्य नलिनीपत्रान्तरितमपि सहचरमपश्न्त्यातुरा (सहचरमपश्यन्त्यातुरा) चक्रवाक्यारौति दुष्करमहं करोमीति ]


हेतुमाह--अस्मिन्निति ! खलु यस्मादर्थे न लक्षितो दृष्टो नतोन्नतो भूमिभागो यत्र तस्मिन्मार्गे ते तव पदानि विषमीभवान्ति । उच्चावचेषु निपतन्तीत्यर्थः । अत्र यात्रासमयेऽमङ्गलशब्दोच्चारणमपि नोचितमिति तच्छ्रवणेन तस्या आशंका भविष्यत इति विषमपदत्वं हेतुत्वेनोक्तम् । पदार्थवाक्यार्थरूपयोः काव्यलिङ्गयोः संसृष्टिः । छेकवृत्त्यनुप्रासौ । वृत्त मनन्तरोक्तम् । क्षीरवृक्षेति प्लक्षादेरुपलक्षणम् । तेन छायाधिक्यं ध्वनि-


तत्तथोक्तं रहितानुबंधं रहितः त्यक्तः अनुबंधः संबंधो येन तथोक्तम् । किंनु खल्वि- त्यादि । युक्तरूपं योग्यतरं कुलगोत्रचरित्रानुरूपमिति यावत् । प्रशंसायां रूपप्प्रत्ययः । हलेत्यादि । अत्र चक्रवाकीशब्देन पक्षिजातेर्वात्स्यायनादिमदनशास्त्राभिज्ञताधिकाराभा- वात् संभोगमात्रसुखाभिज्ञता सूच्यते । न तु नैपथ्यात्मकक्रियात्मकबहुविधशृङ्गारोचितेति यावत् । तादृशी चक्रवाकी सहचरं प्रियं सहचरशब्दप्रयोगेण पक्षिजातेर्विधिनिषेधात्मक- शास्त्रपाठानुष्ठानानधिकारतया कर्मपारवश्याभावात् सार्वकालिकसंभोगादिक्रीडापरतां व्यज्यते । न तु कार्यांतरचिकीर्षया कदापि मनुष्य इव विदेशगमनोद्योगपर इति यावत् । अत एव सहचरशब्दप्रयोगः न तु कांतः प्रिय - इति प्रयुक्तः । नलिनीपत्रान्तरितं नलिनीपत्रमात्रव्यवहितं न तु भित्त्यादिव्यवहितं विदेशस्थं वा । अपश्यंतीत्यनेन दर्शनाभावमात्रमेव किंतु तदीयप्रतिस्वरादिकं ज्ञायत इत्यर्थः । आरसति आसमन्ताच्छब्दायते वर्तमानव्यपदेशेन तस्य बहुविधदुःखावि- ष्करणं प्रदृश्यते । अहमित्यनेन पूर्वोक्तगुणविलक्षणा स्रक्चंदनवस्त्रभूषणादिविषयार्हा मानुषी लब्धैकवारप्रियसंभोगा च तादृश्यहमित्यर्थो दृश्यते । दुष्करं दुष्कृत्यम् । अनु-


१ दक्खिणदो ( दक्षिणतो ) इत्यधिकं क्व० पू० । २ आरसइ ( आरसति )

इति क्व० पु० पाठः । ३ खु ( खलु ) इत्यधिकं क्व० पु• ।