पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २६८ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


अचिरप्पसूदाए जणणीए विणा' वड्ढिदो एव्व । दाणिं पि मए विरहिदं तुमं तादो चिन्तइस्सदि । णिवत्तेहि दाव । ( इति रुदती प्रस्थिता ) [ वत्स, किं सहवासपरित्यागिनीं मामनुसरसि । अचिर प्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् |

 काश्यपः-

उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥ १९ ॥

 शार्ङ्गरवः-भगवन् , उदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हसि ।


रसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विर हितमपि त्वाम् । इत्यनेन स्वस्य मातृतुल्यस्नेहत्वं ध्वनितम् । तातश्चिन्त यिष्यति । निवर्तस्व तावत् । उत्पक्ष्मणोरिति । ऊर्ध्वं पक्ष्मणी ययो- र्लोचनयोर्विषय उपरुद्धा वृत्तिः प्रवर्तनं यस्य तं बाष्पं स्थिरतया स्थैर्येण । धैर्येणेति यावत् । विहतो दूरीकृतोऽनुबन्धः पुनः पुनरुत्पत्तिर्यस्य तं कुरु । उत्पन्नमश्रूर्ध्वीकृतैः पक्ष्मभी रुद्धं तदधिकं चेत्तदधःपतनेऽमङ्गल मिति त्वं निरुन्द्धीति भावः । उत्पक्ष्मणोरिति विशेषणदानार्थं नयनप दम् । अन्यथा वाष्पस्य तदविनाभावित्वादार्थं पौनरुक्त्यं स्यात् । अत्र


क्तत्वात् । पुत्रकृतक इति बालार्थे क प्रत्ययः । उत्पक्ष्मणोरिति । खलु यतो हेतोः अलक्षितनतोन्नतभूमिभागे अदृष्टनिम्नोन्नतभूमिप्रदेशे विषमीभवंति विपरीतानि भवंति । त्स्वलंतीति (स्खलन्तीति) भावः । ततो हेतोः उपरुद्धवृत्तिः उपरुद्धा अंतरिता वृत्तिर्व्यापारो येन


१ वि ( अपि ) इत्यधिकं क्व० पू० । २ विरत, रहित इति

क्व० पु० पाठः । ३ ओदकान्तात् इति क्वo पु०

पाठः । ४ नः इत्यधिकं क्व० पु० ।