पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २६७ )
टीकाद्वयसहितम्।


 काश्यपः-वत्से,

यस्य त्वया व्रणविरोपणमिङ्गदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ १४ ॥

 शकुन्तला-वच्छ, किं सहवासपरिच्चाइणिं मं अणुसरसि ?


बद्धेति सा मता ॥ ’ इति } यस्येति । त्वयात्यन्तदयार्द्रया मातृभूतयेत्यर्थान्तरसंक्रमितम् । यस्य कुशानां सूचिभिः सूच्याकारैरग्रै- र्विद्धे कृतक्षते । सूचीशब्दस्तीक्ष्णाग्रत्वेन संबन्धेनाग्रं लक्षयन्वेधयोग्य- तातिशयं ध्वनति । कश्चित्तु वेधस्याग्रेणैव संभवादवकरत्वं मन्यते । तदा कुशा एव सूचय इति रूपकसमासेन व्याख्येयम् । वेधस्य साधकस्य सत्त्वात् । ननूपमासमासेऽपि स न बाधक इति स एवास्त्विति चेन्न । एतस्मिंस्तु समासे पूर्वपदप्राधान्यात्तत्कृतवेधस्य दारुणत्वं न प्रतीयते । रूपकसमासे तूत्तरपदप्राधान्याद्वेधानां बुद्धिपूर्वकपदत्वेन दारुणत्वप्रतीतेः स एव ज्यायान् । मुखे व्रणविरोपणं व्रणशमकमिंगुदी तापसतरुस्तत्फल तैलं न्यषिच्यत सिक्तम् । दत्तमिति यावत् । सोऽयमग्रे दृश्यमानो मृगः श्यामाको धान्यविशेषस्तन्मुष्टिभिः परिवर्धितः | कः समासान्तः । स्वय मत्तुमसमर्थस्य श्यामाकान्मुष्टौ गृहीत्वा मुखेऽर्पितवतीत्यादि पोषणप्रकारं सूचयितुं मुष्टिपदोपादानम् । सोऽयमित्यादिना जन्मारभ्य यावन्मृगत्वं प्राप्तस्तावत्वयैवं पोषित इतेि व्यज्यते । ते तव पुत्रकृतकः कृत्रिमपुत्रः । आहिताग्निपाठात्परनिपातः । पदवीं मार्गं न जहाति । त्वदनुगामी भव तीत्यर्थः । मृगस्वभावोक्तिः । ब्रविरोतकोतक इति छेकश्रुतिवृत्त्यनु- प्रसाः । वृत्तमनन्तरोक्तम् । वत्स, किं सहवासपारित्यागिनीं मामनुस


किंन्वित्यादि । यस्येति । यस्य मुखे कुशसूचिविद्धे दर्भांकुरक्षते व्रणविरोपणं व्रणस माधायकम् । न्यषिच्यत नितरामसिच्यत । निरित्युपसर्गेण व्रणावसानपर्यंतं तदेकतानचि त्तत्वं द्योत्यते । श्यामाकमुष्टिपरिवर्धितकः धान्यविशेषमुष्टिभिः पोषितः । मुष्टिपरिवर्धि- तक इत्यनेन भूसंसर्गेण व्रणे तृणादिकं लग्नं स्यादिति हस्तेनैवाहारादिकं दत्तमिति यावत् । वर्धितक इति कप्रत्ययेनानुकंपया वर्धित इति द्योत्यते । अनुकंपायां क इत्यु-