पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २६२ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


( सर्वे सविस्मयमाकर्णयन्ति )

 गौतमी-जादे, ण्ण्णादिजणसिणिद्धाहिं अणुण्णादगमणासि तवोवणदेवदाहिं । पणम भअवदीणं [ जाते, ज्ञातिजनस्निग्धाभिर नुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः ]
 शकुन्तला-( सप्रणामं परिक्रम्य । जनान्तिकम् ) हला पिअंवदे,णंअज्जउत्तदंसणुस्सुआएवि अस्समपदं परिच्चअन्तीए दुक्खेण मे चलणा पुरदो पवट्टन्ति । [ हला प्रियंवदे, नन्वार्य- पुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ। पुरतः प्रवर्तेते ]


शिवो माङ्गल्यरूपः सुखप्रदश्च । “ अर्शआदित्वादच् । भूयादिति । शिवं मोक्षे सुखे भद्रे ? इति विश्वः । वायुमार्गयोरुभयोः प्राकरणिक त्वात्तुल्ययोगिता । विशेषणत्रयमत्रापि योज्यम् । अत एव शान्त्येत्यादि पदं समस्तं कृतम् । तत्राद्यविशेषणद्वयेन सौगन्ध्यं शीतलत्वं चोक्तम् । शान्तेति मन्दत्वम् । अनुकूलेति शकुनसूचकम् । कुशेशयेत्यनेन वायो र्यातुमुक्तम् । तेन किंचिदशकुनसूचकत्वम् । योग्येन वायुना यो ग्यस्य पथः संबन्धद्योतनात्समालंकारो व्यङ्ग्यः । परस्परोपकरणादन्यो- न्यालंकारोऽपि । वृत्तिश्रुत्यनुप्रासौ । उपमाहेतुपरिकरालंकाराः । वस- न्ततिलकावृत्तम् । पांसुलत्वेन राजकन्याङ्गानानुमानादनुमानलक्षणमङ्गमुप क्षिप्तम् । तल्लक्षणं दशरूपके– अभ्यूहो लिङ्गतोऽनुमा ’ इति जाते, ज्ञातिजनवत्स्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः प्रणम भगवतीः । नन्वार्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते । अनेन वधूनां नाभिगृहत्यागे दुःखातिशयो व्यज्यते ।


शिवः शुभः । चशब्दः समुच्चये । जाद इत्यादि । जाते वत्से । हलेत्यादि अनेन स्वस्या


१ दाणिं (इदानीं ) इत्यधिकं क्व० पु० । २ दुक्खदुक्खेण ( दुःखदुःखेन ) इति

क० पु० पाठः । ३ पुरोमहा वट्टंति ( पुरोमुखौ वर्तते ) इति क. पु° पाठः ।