पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २६० )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


(कोकिलरवं सूचयित्व ।)

अनुमतगमना शकुन्तलातरुभिरियं वनवास बन्धुभिः । परभृतविरुवं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥ १० ॥


फलसमयजो हर्षातिशयो वक्तुमेव न शक्यत इत्याशयः । सेयं प्रत्यक्षपरिदृश्यमाना शकुन्तला पतिगृहं याति । सर्वैः । संभूयेत्यर्थः । अनुज्ञाप्यताम् । प्रत्येकानुज्ञादाने कायविलम्बो भावेष्यतीत्याशयः । पतिगृहामेत्यनेनानुज्ञानस्योचितसमयत्वं ध्वनितम् । चेतनव्यवहारसमारोपात्समासोक्तिः । वृत्तिश्रुतिच्छेकानुप्रासाः । हेतुश्च । वृत्तमनन्तरोक्तम् । कोकिलारवं सूचयित्वेतेि नेपथ्यगतनष्ठत्वेन । ते हि सुशिक्षिताः सर्वे शकुन्तशब्दं कुर्वन्ति । अनुमतेति । इयं शकुन्तला वनवासबन्धुभिरिते रूपकम् । तरुभिरनुमतगमना यथा कलं परभृतविरुतं कोकिलकूजितं तरुभि


भवस्तेन च सुखोचिततादृग्रजदपिपुण्या: स्वपोषितशकुन्तलायाः स्वाश्रमे कदापि सुखानुभवो नास्तीति ऋषेराशयो व्यज्यते ।व: युष्माकम्। आद्ये प्राथमिके कुसुमप्रसूतिसमये यस्या उत्सवो भवति। उत्सूते हर्षमित्युत्सवः जलप्रदानादिना स्वपरिवर्धितवृक्षाणां स्वदृष्टिपथ एव पुष्पोद्गमसाफल्यदर्शनाद्धर्पप्रकाशकाभ्युदयिककर्म प्रवृत्तं भवतीति यथावत् । नतु प्रत्यहं देवपूजार्थे पुष्पानयनपरिश्रमधिया वैमनस्यं जायत इतिभावः । तेन च प्रत्यहं शकुन्तलाकृतवत्यर्थपुष्पनयनादिशुश्रूषाविशेषश्च द्योत्यते । सेयमिति या युष्माकं ममापि जलप्रदनादिशुश्रूषापरा सेयमिति यावत् । ‘‘ पिता रक्षति कौमारे भर्ता रक्षति यौवने । " इति न्यायेन पतिगृहं याति सहधर्मचारिणी सतीधर्मप्रजाजननार्थं व्रजति । सर्वैर्भवद्भिरनुज्ञयतामनुमन्यताम् । पतिगृहमित्यनेन लज्जया शकुन्तला न वदति तस्ममयोच्यत इति भावः । कोकिलरुतमित्यादि ।रुतं शब्दम् । आ इति हर्षे। अनुमतेत्यादि । अनुमतगमन अनुज्ञातगमना वनवास-बन्धुभिः वनवासपरिचितैः अनेनाश्रमवृक्षसहवासमात्रकथनेन प्रगल्भजनसहवासाभावादनागरिकतया कैतवानभिज्ञता शकुन्तलाया द्योत्यते । एतादृशी लोकवृत्तान्तानमिज्ञा राज्ञो वहुवल्लभत्वानगरिकस्त्रीजनभूयिष्ठे राजगृहे समर्था सती कथं वत्स्यतीति ऋषेश्चिन्ता व्यज्यते । कलमव्यक्तमधुरम् । पंचमस्वरलक्षणमिति यावत् । अनेन वसंतसमयः सूच्यते । वसंतकाल एव हि पिकस्वराणां विकस्वरता संवोभवीति ।


१ रुतं इति क्व।पु। पाठ:।

१ तं इति क° पु० पाठः ।