पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २५९ )
टीकाद्वयसहितम्।


विद्यते पीतं पानमेषां तेऽपीताः । “ अर्शआदित्वादच् ? । तथा च महाभाष्ये-- ‘अकारो मत्वर्थीयो विभक्तमेषामस्तीति विभक्ताः, पीतमेषामस्तीति पीताःइति ।अथोत्तरपदलोपो द्रष्टव्यः ।“ विभक्तधना विभक्ताः,पीतोदकाः पीताः ’ इति । तत्र लोपशब्दार्थमाह कैयट:-‘गम्यमानस्यप्रयोग एव लेपोऽभिमतः । विभक्ता भ्रातर इत्यत्र धनस्य यद्विभक्तत्वं भ्रातृषूपचर्यते ? पीतोदका गाव इत्यत्राप्युदकस्य पीतत्वं गोप्यारोच्यते ' इति । तदभिप्रायेणैव पूर्वव्याख्या ! युष्मास्वपीतेषु सा जलं पातुं नव्यवस्यतीत्येतावत्युच्यमाने पूर्वाकालाताया: प्राप्तत्वात्प्रथममिति पदमनर्थकमिति चेन्न । तदायमर्थः संपन्नः । यदा यदास्या जलपानव्यवसायस्तदातदा युष्मास्वपीतेषु नेति । अयं चार्थो नाभिप्रेतः । ततः प्रथममितेि पान- क्रियाविशेषणम् । तेन युष्मास्वपीतेषु प्रथमं जलं पातुं न व्यवस्यति। भवत्सूदकव्यतिरेकेण प्रथमं जलपानं न करोतीत्यर्थः । व्यवस्यतीति वर्तमानप्रत्ययेनाधुनाप्येतंवस्थाया अपि तान्निर्वाह इति ध्वन्यते । एवमग्रिमत्रवर्तमानप्रत्यययोरपि व्यञ्जकत्वं बोद्धव्यम् । प्रियमण्डनापीत्यनेन ग्रहणयोग्यता सूचिता । भवतां पलुवमवतंसादि कर्तृ स्नेहेन नादत्ते । वो युष्माकमाद्ये प्रथमे कुसुमप्रसूतिसमये पुष्पोत्पत्तिकाले यस्या उत्सवो भवति ।


“शांते तथोक्ताः तेषु पीतमिति भावे क्तः पातुं न व्यवस्यति नेच्छति किंतु पीतेष्वेव पातुमं व्यवस्यतीत्यर्थः । पातुमिति पानक्रियाकमीर्भूतं जलमाक्षेपादेव जाघटीति । अनेन स्वशरीरसौख्यभविचार्य सूर्योदयात्प्रागेवगेवोत्थाय वृक्षाणां जलं प्रयच्छतीति व्यज्यते । जलं पातुं न व्यवस्यतीतेि शकुन्तलपक्षे जलाशब्दस्तु फलमूलाद्युपलक्षकः । वृक्षाणां जलं दत्त्वैव पक्षाफलमूलादिस्वीकरोतिति भावः । तेन च ' वृक्षजलप्रदानादिदुष्करकर्मणि स्ववचनानुकरणतया स्त्रीत्वेऽपि ि ऋषिक्रियमणतत्त्सौशीश्ल्यादिप्रशंसा द्योत्यते । व्यवस्यतीति वर्तमानप्रयोगेण सार्वभौमानुरूप वरप्राप्तावपि न गर्वः । किंत्वद्यापि गमनदिवसेपि स्ववचनानुकरणशीला जलं प्रयच्छतीति व्यज्यते । वृक्षपक्षेऽपि जलशब्देन कीटदिनिवारणकरपदानादितत्संरक्षकसामग्री गृह्यते। तर्हि तपस्विपुत्रथस्तत्कर्मोचितमेव कथं तत्प्रशंसा क्रियत इत्यत आह-प्रियमंडनापीति इष्टालंकारापि अनेन राजपुत्रीति व्यज्यते ब्रह्मर्षिपुत्र्याः परिमिताहारादिक्लिष्टव्रताविशेषानुष्ठानतत्परतया स्वदेहालंकारादौवैमनस्यं संवोभवीति तादृशकर्मानर्हेति यावत् । भवतां युष्माकं पल्लवं नवदलं स्नेहेनाहेतुपक्षपातेन हेतुना नतु स्वदेहालंकरणविमुखतयेति यावत् । नादत्ते न याति । पल्लवमित्येक वचनैननवधानेनलीलया च कदाप्येकपल्लवभंगभीरुता व्यज्यते । भवतामिति बहुवचनेन बहुवृक्षलतानां जलप्रदानांदिसंरक्षणक्रियया कदापि शकुन्तलाया विश्रम्भ