पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २५८ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


कश्यपः-( ऋक्छन्दसाशास्ते ।)

अमी वेदिं परितः क्लृप्तधिष्ण्या समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अपनन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥ ८ ॥ वत्से, प्रतिष्ठस्वेदन । ( सदृष्टिक्षेपम् ) क्व ते शार्ङ्गरवमिश्रा: । ( प्रविश्य) शिष्यः-भगवन्, इमे स्म:। काश्यपः-भगिन्यास्ते भार्गमादेशय ।

शार्ङ्गरव-इत इतो भवती ।

( सर्वे परिक्रामन्ति ।) कश्यपः-भो भोः संनिहितास्तपोवनतरव:, पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ९ ॥


ऋक्छन्दस्तेन ऋक्छन्दोग्रथितेन वाक्येनेते यावत् । अमी इति।अमी पुरतः परिदृश्यमानाः कृतधिष्ण्याः क्लृप्तस्थानाः 'धिष्ण्यं स्थाने गृहे भेऽग्नौ इत्यमरः । अनेन त्रित्वमुक्तम् । समिद्वन्तः ससमिधः । पदसंज्ञायां जश्त्वम् । प्रान्तसंस्तीर्णेति च विशेषणद्वयेन सद्योङ्गतत्वेन प्रकाशमान त्वाच्छुभसूचकत्वं ध्वन्यते । अपघ्नन्तो नाशयन्तः । वैताना यज्ञसंबन्धिनः । परिकरालंकारः । तपोवनतरव इत्यस्य श्लोकेन संबन्धः । पातुमिति । न


प्रोक्तलोढव्यपदेशस्य विधिरेवार्थः नाशीरिति भावः । अमीः इत्यादि । प्रांतसंस्तीर्णदर्भाः प्रांतेषु चतुर्दिक्षु संस्तीर्णा दर्भा येषां ते तथोक्ता: । अनेन त्वत्प्रेषणार्थं मयापि प्रातः कालकर्तव्याग्निहोत्रकर्मादिकं सर्वं निर्वर्तितमिति व्यज्यते । विताने। यागस्तत्संबंधिनो वैतानाः । अहो इत्यादि । सन्निहितदेवता मिलितदेवताः । अहो इति संबुद्धिः । सन्निहितदेवतात्वकथनेन बहुवचनेन चाधमस्य सार्वकालिकवसंतादिसर्वेतुसान्निध्यं गम्यते । पातुमिति । या शकुन्तला युष्मासु प्रथमं जलमपीतेषु न विद्यते पीतं पानं


१शार्ङ्गरव इत्यधिकं क्व।पु।२शकुन्तल परिक्रामति क्व।पु।पाठ:।

३अहो सन्निहितदेवता:इति क्व।पु।पाठ:।

१ शीरच इत्यधिकं क० पु• । २ शकुंतला पारमाति इति• क० पु• पाठः ।

३ अहं सन्निहितदेवताः इति कo पु० पाठः ।