पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
( २४९ )
टीकाद्वयसहितम्।


 प्रियंवदा -( विलोक्य ) एसा सज्जोदए एव्व सिहामज्जिदायडिच्छिदणीवरहत्थाहिं सोत्थिवाअणहिं तावसीहिं अहिणन्दीअमाणा सउन्दला चिद्दइ । उवसप्पह्न णं।[ एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवरहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिराभिनन्द्यमाना शकुन्तला तिष्टति उपसर्पाव एताम् ]

( इत्युपसर्पतः )

( ततः प्रविशते यथाद्दिष्टव्यापसनस्था शकुन्तला )

 तापसीनामन्यतमा-(शकुन्तलां प्रति ) जादे, भत्तुणो बहुमाणसूअअं महादेईसदृं लेहेहि [ जाते, भर्तुर्बहुमानसूचकं महदेवीशब्दं लभस्व |
 द्वितीया-वच्छे, वीरप्पसविणी होहि ।वत्से वीरप्रसविनी भव]
 तृतीया-वच्छे, भत्तुणो बहुमदा होहि। [वत्से,भर्तुर्बहुमता भव ।

( इयाशिषो दत्त्र गौतभीवर्ज निष्क्रान्ताः )

 सख्यौ-( उपसृत्य ) सहि, सुहमज्जनं दे होदु । [ सखि, सुखमज्जनं ते भवतु ]


काशः | तथा क्रियताम् । त्वरस्य । एते खञ् हस्तिनापुरगामिन ऋषय आकार्यन्ते । साखि, एहि । गच्छत्रः एषा सूर्योदय एव शिखामज्जिता मज्जनं स्नानं कारिता |अभ्यङ्गस्नानं कारितेति यावत् । प्रतिष्ठिता गृहीता नीवारा यैरेवभूता हस्ता यासां ताभिः । शून्यहस्तानामागमनमनुचितमिति नीवारेत्याद्युक्तिः । स्वस्तिवाचनिकाभिः पारम्पर्येण स्वस्तिवाचनाधिकारिणीभिस्तापसीभिस्तपस्विसुवासिनीभिराशीर्भिरनुगृह्यमाणा (रभिनन्द्यमाना ) शकुन्तला तिष्ठति । उपसर्पाव एताम् । जाते पुत्रि, भर्तुबहुमानसूचकं महादेवीशब्दं लभस्व । वत्से, वीरप्रसविनी भव । वत्से,


भनं नाम लैपनविशेषः । शिखा मार्जितेत्यनेन अभ्यक्तस्नातेति यावत् ।


१ पडिच्छिद ( प्रतिष्टित ) इति नास्ति “ क० पु० १ २ क्खद ( अक्षत ) इत्यधिकं

क्० पु० ३ मार्जिता इति क० यु० पाठाः । ४ अहिअच्छ ( अधिगच्छ )

इत क०पु० पाठः । '५ जादं ( जातं ) क० पु० पाठः ।