पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४८ )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


ता इमं हत्थसंणिहिदं करेहि । जाव अहंषि से मअलोअणं तित्थभित्तिअं दुव्याकिसलअणित्ति मङ्गलसमालम्भणाणि विरएमि । [ तेन हेतस्मिश्रूतशाखावलम्बिते नालिकेरसमुद्रक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका। तदिमां हस्तसंनिहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूवकिसलयानीति मङ्गलसमालम्भनानि विरचयामि |
 प्रियंवदा-तह करीअदु । [ तथा क्रियताम् ॥

(अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्वाति )

( नेपथ्ये )

गौतमि, आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
 प्रियंवदा -( कर्णं दत्वा ) अनसूए, तुवरसु । एदे क्खु हस्थिणाउरगामिणो इसीओ सदावीअन्ति । [ अनसूये, त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषय आकार्यन्ते ।

( प्रविश्य समालम्भनहस्ता )

 अनसूया-सहि, एहि । गच्छह्न । [सखि एहि । गच्छावः]

( इति परिकामतः )


संनिहितां कुरु । गृहणेत्यर्थः । यावदहमपि तस्यै तदर्थम् । “ तादर्थ्ये डिच्च ' इति विकल्पेन षष्ठीविधानात् 1 मृगरोचनां गोरोचनाम् । “ मृगः पशौ कुरङ्गे च ’ इति विश्वः । तीर्थमृत्तिकां दूकिसल्यानि दूर्वाकुरा इत्येतदूपाणि मङ्गलसमालम्भनानि मङ्गलालंकरणानि विरचयाम्येकत्र करोमीत्यर्थः । ‘ समालम्भनमालेपे तिलकेऽनुकृतावपि १ इति यादवप्र-


“यः । देशौचित्याद्रसौचित्याकार्या विषक्रियाभिसदा ।। " इति । प्रविश्येत्यादि । समालं


१ तं तुमं ( तां त्वं ) इति कo पु० पाठः । २ से गोरोअणं / अस्याः गोरोचनं )

इति क्व घु० पाठः । ३ भाजनं इत्याधिकं क० पु० । ४ तुवर ( त्वरय )

इति ङ० पु० पाठः। ५ अत्तिणअर ( हस्तिनगर ) इति क० पु

पाठः । ६ सदृअन्ति ( शब्दायन्ते ) इति क० पु• पाठः ।