पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २४० )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।

अपि च ।

अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्रसुदुःसहनि ॥ ३ ॥


वकाश इति ज्ञेयम् । अन्तरिति । शशिनि चन्द्रेऽन्तर्हिते व्यवहिते । 'अन्तर्धा व्यवधा' इत्यमरः । यतः स शशयुक्तः कलङ्की, अतस्तस्यान्तर्धानमुचितमिति भावः । या पूर्वे विकसितकुसुमा कमलोपहारकारिणी सैव तत्रापि या काचन न भवति । अपि तु पृथिवोहर्यकारिणी मे तापसस्य विषयादिविवेकशून्यस्य दृष्टिं न नन्दयति न हर्षयति । तत्रार्थे हेतुः । कीदृशी । संस्मरणीयादृश्या शोभा यस्याः सा । इष्टः प्रियस्तस्य प्रवासो देशान्तरस्थितिस्तेन जनितानि दुःखानि ।अबलाजनस्येति सुदुःसहत्वेनोक्तम् । अन्यथा स्त्रीजनस्येत्येव ब्रूयात् । जनशब्देन जाति-


क्योक्तम् "अनुल्वणत्वाद्व्यंग्यानामव्यंग्यं चित्रमीरितम् ।" तस्माद्व्यंग्यार्थस्यात्यंतविच्छित्तिः कुत्रापि काव्ये नेष्यते । यथा व्यंग्यत्वेन प्रतिपादिते चित्रकाव्ये व्यंग्यार्थच्छायानुवृत्तिस्तथानलंकारे उक्तकाव्ये ध्वनावप्यलंकारच्छायानुवृत्तिरिति प्रतिपादयन्ति । "अव्यंगे तु यथा काव्ये व्यंग्यच्छायानुवर्तते। ध्वनावप्यनलंकारे तथालंकारवसना ॥" इति । काव्यत्य केनचिद्रसेन भवितव्यम् । रसो व्यंग्यः रस एव काव्यस्य आत्मा भवति । दोपगुणालंकाराणां व्यंग्यस्यापि शब्दार्थायत्तत्वे समाने कथं ध्वनेरात्मत्यमित्याशंक्येदमुच्यते । "दोषा गुणा अलंकाराः सर्वेऽपि रसगोचराः । काव्यस्यात्म रसो यस्मादात्मधर्माश्च ते ग्रतः ।" इति सर्वथा ध्वन्यमानस्वरूपतया रस एव काव्यस्यात्माआत्मनो धर्माश्च दोषा गुणा अलंकाराः यस्मात्तस्मात्ते च धर्मा एव नतु काव्येषु शब्ददोषाः अर्थदोषः शब्दगुण अर्थगुणाः शब्दालंकारा अर्थालंकार इति व्यवहारः कथमिति चेदुच्यते "गदशौर्योगदादीनामंगधर्मतया तथा । शब्दार्थगोचरतया तथा तेषां च कीर्तनम् ॥" यथा लोके आत्मधर्माणां व्याधिरूपाणां शौर्यादिरूपाणां च गुणानमंगदादिरूपाणामलंकाराणां च शरीरधर्मत्वेनावस्थानम् । तथात्राप्यात्मभूतरसधर्माणां धृतिकटुकत्वादिदोषाणां माधुर्यादिगुणानामनुप्रासाद्युपमाद्यलंकाराणां च शब्दार्थगतत्वेन प्रति- पादनमिति ज्ञातव्यम् । अपिचेत्यादि । आपिच किंच प्रातःकालसंवेध्येव किंचिदुच्यत इत्यर्थः । अंतर्हित इति । शशिनि चंद्रे अंतर्हिते अतर्धानं गते सति सैव कुमुद्वती या रात्रौ चंद्रकिरणस्पर्शाद्विकासवत्तया दर्शनीया दृष्टा सैव कुमुद्वतीति यावत् । संस्मरणी-