पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
(२३९)
टीकाद्वयसहितम्।

द्धभृत्योऽपि नाशं यात्यन्यो यं कंचनासमर्थं सर्वदा स्वाश्रितमुदयन्नेव स्वयमुदयं गच्छतीतेि सत्पुरुषद्वयव्यवहारसमारोपात्समासोक्तिः । उत्तरार्धे च नियम्यत इतेि तरसर्वाचरणे प्रयोगात्सेनवद्वस्तुसंबन्धसामर्थ्याद्बिम्बप्रतिबिम्बकल्पनरूपा निदर्शना व्यङ्ग्या । उत्प्रेक्षाया वाच्यत्वात् । वाच्या निदर्शना यथा -'चूडामणिपदे धत्ते यो देवं रविमागतम् । सतां कार्यातिथेयीति बोधयन्गृहमेधिनः ॥' इति । अत्र प्रभातवर्णने प्रकृत उभयोरपि प्राकरणिकत्वादरुणपुरःसरत्वस्य समानतया तुल्ययोगितापि । तेजोद्वयस्य व्यसनोदयाभ्यामिति यथासंख्यमपेि । हेतुश्च । कतोकतोइति द्वयद्वयेति छेकवृत्त्यनुप्रासौ । वसन्ततिलका वृत्तम् । उद्देश्यप्रतिनिर्देश्ययोरेकपदोपादाननियमे सत्यप्यत्रौषधिपत्यर्कशब्दोद्देश्यत्वेऽपि सर्वनाभवत्तेजोद्वयस्य प्रतिनिर्देशेऽपि तत्र तयोरिति तेजोरूपस्फुराणाज्जगत्स्थितिकारणस्य तेजोद्वयस्येदृशी गतिरन्यस्य किमु वक्तव्यमित्यर्थस्फुरणाच्च सहृदयानामर्थपौषेण चमत्कारमेवावहतीत्येतादृशस्थले न दोषा-


रनियतत्वात्तयोः प्राप्तयौः सतोः तदवस्थानुभवविकारो न कर्तव्य इत्युपदिश्यत इत्यर्थः ।नाटकनिबद्धनिखिलवर्णनादीनां प्रकृतोपियोगितया योज्यत्वादत्र श्लोके चन्द्रसूर्ययोर्दुःखसुखानुभवकथनेन दुष्यन्तबिश्लेषादात्रौ चंद्रकिरणजनितदुःखं शकुन्तलया सोढुमुचितमिति व्यज्यते । तथा नायकसंगमसमये सुखं तद्वत्तद्विश्लेषेऽपि दुःखमुचितमिति शकुन्तलाया सोढव्यामित्युपदिश्यत इत्यभिप्रायः । नाटकस्य काव्यस्येव यथा तथा बहुवर्णनं प्रकृताश्रयतया कर्तुं न शक्यते किन्तु निखिलपदवाक्यपदैकदैशरचना वर्णनार्थानां वाच्यलक्ष्यव्यंगतात्पर्याणां चन्द्रोदयसूर्योदयवर्णनानामपि प्रकृतोपयोगित्वं महाकविना कर्तव्यम्। नाटकांतं कवित्वमिति नाटकस्य बहुभारतीयादिलक्षणग्रंथलक्ष्यत्वादिति भावः । महाकविप्रणीतकाव्यस्य व्यंगमेव भूषणं न तु वाच्यालंकारादि हि । तदुक्तम् "मुख्या महाकविगिरामलंकृतिमृतामपि । प्रतीयमानच्छायैव भूषा लज्जैत्र योषिताम् ॥" इति । यथा केयूरहारनूपुराद्यनेकालंकारालंकृतानामपि स्त्रीणां लज्जैव मुख्या भूषा भवति । तथा चित्रयमकश्लेपाद्यनेकालंकारालंकृतामपि काव्यानां महाकविसंबधिनां प्रतीयमानार्थच्छायैव मुख्या भूषा भवति । भवतु च्छायामात्रेणापि ध्वनेर्यत्रावस्थानं तत्र तस्य मुख्यत्वमपि । चित्रयमकश्लेषोपमाद्यलंकृते व्युत्पत्तिमात्रप्रदर्शनफले काव्ये कथमाविभर्वतु व्यंग्यच्छायेति वादिनं प्रत्युच्यते "निर्गुणं न भवेत् काव्यं गुणाश्च रसगोचरः । तस्माद्रसेन केनापि भाव्यं चित्रेऽप्यनुज्झता ॥ अनुल्वणत्वाद्व्यंग्यानामव्यंग्यं चित्रमीरितम् । व्यंग्यस्यात्यन्तविच्छित्तिः काव्ये कुत्रापि नेष्यते ॥" काव्येन तावत्सर्वथा गुणबत् इव भवितव्यम् । गुणाश्च रसधर्मा भवन्ति तस्माचित्रेऽपि काव्ये अनुज्झता केनापिं रसेन भवितव्यम् । अन्यथा काव्यशब्दविषयत्वाभावत् तत्कथं काव्यप्रकाशकारेणाव्यंग्यमिति प्रतिपादितमित्याशं-