पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(२३८)
[चतुर्थः
अभिज्ञानशाकुन्तलम् ।

यात्येकतोऽस्तशिखरं पतिरोषधीना-
 माविष्कृतोऽरुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपव्धसनोदयाभ्यां
 लोको नियम्यत इवात्मदशान्तरेषु ॥२॥


क्षणार्थं समयज्ञानार्थम् । 'वेला काले च जलधेस्तीरनीरविकारयोः' इति विश्वः । यातीति । ओषधानां पातिश्चन्द्रः । अतिदुःसहमरणादिविपत्तिसहस्रविनाशका ओषधयस्तासां पतिरप्यस्तशिखरं यातीति । इममर्थमभिद्योतयितुमेतत्पदव्यपदेशः। शिखरपदेनात्युच्चैः पतनायेति सूचितम् । अरुणोऽनूरुः पुरःसरो यस्य स तादृशोऽर्क एकतः पूर्वत आविष्कृतः प्रकटीभूतः । तेजोद्वयस्य चन्द्रसूर्यरूपस्य युगपदेकदैकसमयोभयदर्शनेनैव नियमः कर्तुं शक्यते । न तु क्रमिकदर्शनेनेतेि युगपदित्युक्तः । स्वव्यसनोदयाभ्यामस्तसमयोदयाभ्यां विपरसंपद्भ्यां च हेतुभ्याम् । 'व्यसनं विपदिं भ्रंशे' इत्यमरः । उदयः संपदुत्पत्त्योः पूर्वशैले समुन्नतौ' इत्यजयः । लोको जनः । आत्मदशान्तरेषु स्वदशाविशेषेषु । अन्तरशब्दो विशेषवाची । नियम्यत इवेत्युत्प्रेक्षा । स्वस्वविपत्तिदशायां केनापि दुःखहर्षो न कार्याविति भावः । अत्र पूर्वार्धे यः कश्चितेिसमृ


तौऽस्माति यत्तस्मादित्यर्थः । प्रकाशं प्रकाशस्थानं विवृतप्रदेशमित्यर्थः । हन्तेतेि खेदे । यात्येकत इत्यादि । एकतः एकत्र पश्चिमभाग इति यावत् । ओषधीनां पतिः चन्द्रः अस्तशिखरं याति हाससमयतया निस्तेजस्को जात इति भावः। यातीति क्रियापदस्य वर्तमानव्यपदेशेन क्षयिष्णोश्चंद्रस्य दृष्टिपथ एव पूर्वं यथा स्वस्य तेजस्वित्वमुदयश्च ततोऽधिकं द्वयमप्यन्यस्य भवतीति व्यज्यते । न तु परोक्ष इति भावः । ओषधीनां पतािरित्येकवचनेन क्षयशीलं पुरुषं सर्वे परित्यजन्तीति व्यज्यते । एकतः एकत्र पूर्वभाग इति यावत् । अर्कः सूर्यः अरुणपुरःसरः अरुणः अनूरुः पुरस्सरोऽग्रेसरो यस्य स तथोकः। आविष्कृत आविर्भूतः वृद्धिसमयतया तेजस्वी दुष्ट इति भावः । अरुणपुरःसर इति विशेषणेन उदयशीलजनस्य सर्वे सहाया भवन्तीति व्यज्यते । आविष्कृत इति भूतार्थेन वर्धिष्णोः सूर्यस्य पुरस्तादेव कस्याचिदन्यतेजस्विनः निष्प्रभत्वं नाशश्च भवतीति व्यज्यते । तेजोद्वयस्य चंद्रसूर्ययोः युगपदेकदा एकस्मिन् क्षण इति यावत् परस्परदृष्टिपथ एवेति भावः । व्यसनोदयाभ्यां ह्णासवृद्धिभ्यां लोकः सुखदुःखवान् जनः । जात्यैकवचनम् । आत्मदशान्तरेषु स्वस्य सुखदुःखावस्थाभेदेषु नियम्यत इव सखदुःखयो-