पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ४]
(२३७)
टीकाद्वयसहितम्।

 अनसूया-पिअंवदे, दुवेणं एव्व णं णो मुहे एसो वुत्तन्तो चिट्ठदु । रक्खि[१]दव्या क्खु पकिदिपेल[२]वा पिअसही । [प्रियंवदे, द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी]
 प्रियंवदा-को णा[३]म उण्होदएण णोमालिअं सिञ्चेदि । [को नामोष्णोदकेन नवमालिकां सिञ्चति]

(इत्युभे निष्क्रान्ते)

विष्कम्भः

(ततः प्रविशतेि सुप्तोत्थितः शिष्यः)

 शिष्यः–वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्र[४]काशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्यः च ।) हन्त प्रभातम् । तथा हि ।


पहितवदना । अत्र वामहस्तग्रहणं स्त्रीस्वभावात् । आलिखितेवेत्युत्प्रेक्षः अतिनिश्चलस्वं सादृशं गम्यम् । प्रियसखी शकुन्तला । भर्तुगतया चिन्तयात्मानमापि नैषा विभावयाति जानाति । काहं किं करोमि कुत्र तिष्टामीत्याद्यात्मविषयकमापि ज्ञानं नास्तीत्यर्थः । किं पुनरागन्तुकम् । विभावयतीत्यनुषज्यते । तज्ज्ञानं दूरापास्तमित्यर्थः । द्वयोरेव । नन्वनुमतौ । आवयोर्मुख एष वृतान्तस्तिष्ठतु । स्थितेः प्राप्तकालतेत्यर्थः । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी । पूर्ववाक्यं प्रत्या [र्थो] हेतुः । को नामो ष्णोदकेन नवमालिँका सिञ्चति । वैधर्म्यदृष्टान्तः । 'द्वयोः' इत्यादिनैतदन्तेन शकुन्तलां प्रति शापाकथनच्छद्मनाभूताहरणमङ्गशुपक्षिप्तम् ।तल्लक्षणं तु-'कपटाश्रयं यद्वाक्यमभूताहरणं विदुः' इति । विष्कभलक्षणं पूर्वोक्तम् । अयमपि शुद्धवैष्कम्भः केवलं प्राकृतेन कृतत्वात् । वेलोपल


एतत्सानुक्रोशत्वं बह्वधिकं एतदेवलमिति यावत् । ततः प्रविशतीत्यादि । वेलोपलक्षणार्थं कालपरिज्ञानार्थम् । प्रवासादुपवृत्तेन सोमतीर्थात् प्रतिनिवृत्तेन आदिष्टोऽस्मि आज्ञ-


  1. रक्खणीआ (रक्षणीया) इति क्व० पु० पाठः ।
  2. पेससा (पेशला) इति क्व० पु० पा० ।
  3. दाणिं (इदानीम्) इति क्व० पु० पा० ।
  4. तत् इत्यधिकं क्व० पु० ।