पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २३० )
[ चतुर्थः
अभिज्ञानशाकुन्तलम् ।


 अनसूया-अज्ज सो राएसी इट्ठिं परिसमाविअ इसीहिं विसज्जिओ अत्तणो णअरं पविसिअ अन्तेउरसमागदो इदोगदं वृत्तन्तं सुमरोदि वा ण वेत्ति । [ अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मराति वा न वेति ]

 प्रियंवदा --वीसद्धा होहि । ण तादिसा आकिदिविसेसा गुण- विरोहिणो होन्ति । एतिअं उणचिन्तणीअं, तादो दाणिं इमं वृत्तन्तं सुणिअ ण आणो किं पडिवज्जिस्सदि त्ति । [ विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । एतावत् पुनश्चिन्तनीयं, तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ]

 अनसूया–जह अहं देक्खामि, तह तस्स अणुमदं भवे । [ यथाहं पश्यामि, तथा तस्यानुमतं भवेत् ]

 प्रियंवदा—कहं विअ [ कथमिव ]


वञ्चिन्तनीयम् । कथमिव | अद्य स राजर्षिरिष्टिं परिसमाप्य प्रहितः ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरे स्त्रीसमाजे समागतो मिलित इतोगतं वृत्तान्तं स्मरति वा न वा । अनेन वक्ष्यमाणेन दुर्वाससः शापेन राज्ञो नायिकाविस्मरणकारणं सूचितम् । विस्रब्धा भव विश्वासयुक्ता भव न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । ' यत्राकृतिस्तत्र गुणा वसन्ति ’ इत्युक्तेः । तेन तस्मिन्दुष्यन्ते वचञ्चनाविस्मरणदिकं न संभाव्यत इति भावः । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । यथाहं पश्यामि । अत्र दृशिर्ज्ञानार्थः । जानामीत्यर्थः । यथाशब्दो योग्यतायाम् । योग्यतयाहं जानामि। तस्यानुमतं भवेदातेि । यथेति ‘ योग्यतावीप्सापदार्थानुवृत्तिसादृश्येषु ’ इति


१ तादिसी गुणविरोहिणी पकिदी ( तादृशी गुणविरोधिनी प्रकृतिः ) इति क्व०पु०पाठः। २ हेन्ति । एतिअं उणचिन्तणीअं ( भवन्ति । एतावत्पुनश्चिन्तनीयम् ) इति क० पू० नास्ति । ३ भवे ( भवेत् ) इति क्व० पु० नास्ति ।