पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२८ )
[ चतुर्थे
अभिज्ञानशाकुन्तलम् ।


चतुर्थोऽङ्कः।


विष्कम्भकः।

( ततः प्रविशतः कुसुमावचयं नाट्यन्त्यौ सख्यौ )


अथ चतुर्थाङ्कादिपञ्चममध्ये ‘यथोक्तं करोति' इत्यन्तेन गर्भसंधिरुक्तः। । तल्लक्षणमादिभरते- उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव च । पुनश्चान्वेषणं यत्र स गर्भः परिकीर्तितः ॥ ’ इति । पूर्वसंध्युपाक्षिप्ताप्तिः । दुर्वाससः शापादप्राप्तिः । पुनस्तस्य प्रसादेनाभिज्ञानदर्शनेन पुनः प्राप्तिरिति । अत्राप्त्याशापताकानुरोधादङ्गानि कल्पयेत् ।‘अभूताहरणं मार्गे रूपोदाहरणे क्रमः । संग्रहश्चानुमानं च तोटकादिवले तथा ॥ । उद्वेगसंभ्रमाक्षेपा द्वादश ' इति । एषामङ्गानां व्याख्यानावसरे तत्र तत्र लक्षणं वक्ष्यामः । तत्र पताकाया अनित्यत्वात् । अत्र पताका नास्ति । तदुक्तं धानिकेन--' पताका स्यान्न वा स्यात्प्राप्तिसंभवे ' इति । प्राप्त्याशायानियतत्वमुक्तं सुधाकरेऽपि- 'पताकायास्त्ववस्थानं क्वचित् ’ इति । तेनप्राप्त्याशालक्षणमेव लिख्यते । तल्लक्षणं सुधाकरे -- प्राप्त्याशा तु महार्थस्य सिद्धिसद्भावभावना’ इति । अत्रापि दुर्वाससः प्रसादेन महार्थस्य शकुन्तलारूपस्य राज्ञः प्राप्तिसद्भावनेति ज्ञेयम् । कुसुमावचयं नाट्यन्त्या


कविरिदानीं कथान्तरमारभमाणो वस्तुसंवटनार्थे विष्कंभं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रविशत इत्यादि । तदुक्तं ‘‘ सूच्यं श्राव्यं दृश्यामिति तत्र वस्तु त्रिधा मतम् । नीरसानुचितं चस्तु सदा संसूच्यमेव तत् । श्राव्यं तु युद्धसंक्षोभपुत्रजन्मादिकं स्मृतम् । दृश्यं तु मधुरोदात्तरसभावनिरंतरम् । अर्थोपक्षेपकैः सूच्यं पंचभिः प्रतिपादयेत् । विष्कंभचूलिकांकास्यांकावतारप्रवेशकैः । अतीतानां, भाविनां च कथाशांनां प्रदर्शक । मध्यमेनैकपात्रेण द्वाभ्यां त्रिभिरथापि वा । प्रयोज्यो वस्तुविस्तारो विष्कंभस्तु द्विधा भवेत् । शुद्धसंकीर्णभेदेन शुद्धः केवलमध्यमैः । पात्रैः प्रयोज्यो भाषैक्यात्संकीर्णो नीचमध्यमैः। वाक्यैः स्याद्भिन्नभाषायैः संस्कृतप्राकृतादिभिः । आदौ विष्कंभकं कुर्यान्नाटकेषु महाकविः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । यदा संदर्शयेच्छेषं कुर्याद्विष्कंभकं तदा । यदा तु सरसं वस्तु मूलादेव प्रवर्तते । आदावेव तदांकांशादा ।