पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २२६ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


( आकाशे ।)

राजन्,

सायंतने सवनकमणि संप्रवृत्ते
वेदिं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः
संध्यापयोदकपिशाः पिशिताशनानाम् ॥ २८ ॥

पुष्पं नामाङ्गमुपक्षिप्तम् । तल्लक्षणं दशरूपके–' पुष्पं वाच्यं विशेषवत् ' इति । सायंतन इति । सायंतने सायंकालीने । ‘सायंचिरं-' इत्यादिना ट्युल् तुडागमश्च । सवनकर्मणि यजनकर्मणि। ‘सवनं यजने स्नाने ’ इति विश्वः । सम्यक्प्रवृत्ते न त्वादावेव । हुताशनवतीं वेदिं परितः प्रयस्ता इतस्ततो विक्षिप्ताः । क्वचित् ‘ प्रकीर्णाः ’ इति पठः। संध्यापयोदवत्सा- यंकालीनमेघवत्कपिशाः पिङ्गटा भयमादधानाः पिशिताशनानां रक्षसां छायापंक्तयो बहुधानेकवारं चरंति गतागतं कुर्वन्ति । ‘छाया स्यादातपाभावे सच्छोभापंक्तिषु स्मृता ' इतेि विश्वः । परिप्रेति पिशापिशीति छेकवृत्तिश्रुत्यनुप्रासाः । उपमा च । वसन्ततिलका वृत्तम् । अत्रापि भयानको रसः । उक्तं च--' भये तु मन्तुना घोरदर्शनश्रवणादिभिः । चेतस्यतीवचाञ्चल्यं तत्प्रायो नीचमध्ययोः ॥' इति । तद्भयं स्थायिभावः। पिशितासनच्छायावलोकनं विभावः । पद्यस्थभयशब्देन प्रासलक्षणो व्यभिचारी । उद्दीपनविभावादिकं स्वयमूहनीयम् । अत्र प्रतिमुखसंधौ निर्मनर्मद्युत्युपासनान्यङ्गानि नोक्तानि । कानिचिद्व्यत्ययेनाप्युक्तानेि तत्कथमिति । न वाच्यम् । भरतादिभिरेव तथोक्तेः । तत्रादिभरते- 'कविभिः काव्यकुशलै रसभावमपेक्ष्य तु । सर्वाङ्गानि कदाचित्तु द्वित्रिहीनानि वा पुनः ।


क्रियाः सूच्यन्ते । आसज्यमानेक्षणः आसंमताद्बद्धेक्षणः सहसा न शक्नोमित्यनेन सर्वकार्यानुत्साह उक्तः । सायंतन इति । सायतने सांध्ये सवनकर्मणि यज्ञकर्मणि छायाः प्रतिबिंबानि बरांतेि घृतादिपात्रेषु दृश्यन्त इत्यर्थः। बहुधा भयमादधाना इत्यनेन स्वेषां तत्प्रती


१ नेपथ्ये इति क्व० पु० पाठः । २ प्रवृत्ताः, प्रकीर्णाः इति क्व० पु० पाठः ।