पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २२५ )
टीकाद्वयसहितम्।


 क्व नु खलु संप्रति गच्छामि । अथवा । इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । ( सर्वतोऽवलोक्य )

 तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
  क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरार्पितः ।
 हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
  निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २७ ॥


लिङ्गम् । वृत्तमनन्तरोक्तम् । तस्या इति । तस्याः पुर इव परिवर्तमा- नाया पुष्पमयी न पल्लवमयी । तेषां ततोऽपि मृदुत्वात् । तेन तस्याः कोमलतरत्वं ध्वन्यते । शरीरेण संतप्तदेहेन लुलितेतस्ततः क्षिप्ता । शरीरस्य संतप्तत्वं प्रकरणलभ्यमिति नोक्तम् । शिलायामियं शय्येति यथादृष्टोक्तिः। क्लान्ता । एवमेष इदमित्यत्रापि । अत्रैषशब्दः समीपतरत्वं वदन्मदनलेखस्य स्वोद्देशेन प्रियालिखितत्वेन च हृद्यतरत्वं ध्वनति । अतएव नेदमेतदोः प्रक्रमभङ्गः शङ्कनीयः । उक्तं च- 'इदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् ’ इति । अतएव पुष्पाद्यविशेषेणोक्तम् । अत्र तु नलिनीपत्रे नखैरर्पित इति । यथायथं पंचानामप्युपयोगादक्षरबाहुल्याद्वानखैरिति बहुवचनम् । बिसाभरणं क्लान्तमित्येव । इयमुना प्रकारेणायं स्तनन्यस्तो मृणालभरः क्लान्तः । इति प्रकारशब्दार्थः। मध्यदीपकालंकारः। आ समन्तात्सज्यमाने स्वयमेव संबध्यमाने ईक्षणे यस्य सः । शून्यादपि तया विरहितादपि वेतसगृहात्सहसाकस्मान्निर्गन्तुं न शकोमि । तत्त्यक्तान्युपभोगचिह्नान्यत्यन्तं मम मनो रमयन्ति तत्र सा किमु वक्तव्येति भावः । हेत्वनुप्रासौ । अत्र निर्गमनकारणे शून्यत्वे सति यस्तदभावः सा विशेषोक्तिः । अथ च तत्सद्भावस्य कारणस्याभावेऽपि गमनाभावस्तत्कार्यमुक्तमिति विभावना । अत्र च कारणाभावस्तद्विरुद्धोक्तिः । साधकबाधकप्रमाणाभावात्संदेहसंकरः ।शार्दूलविक्रीडितं वृत्तम् । अस्य तुर्यचरणेन


न्नायिकारब्धत्वं कदाचिन्नायकारब्धत्वं कदाचिदुभयारब्धत्वं कदाचिद्धर्षे णारंभो मदेन वा चिन्तया वोन्मादेन वा " इत्यादि । अत्रानेकेषां रसानां श्रृंगारंगत्वेनोपादानं कृतम् । अनेन कविनटयोः शिक्षाप्रकारः प्रदर्शितः । क्व नु खल्वित्यादि । खलु जिज्ञासायाम् । तस्या इति । तस्या अनुभूतायाः शकुन्तलायाः शरीरलुलितेत्यनेन तत्कृतबहुविधसुरत १५