पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २१९ )
टीकाद्वयसहितम्।


 राजा--

अपरिक्षतकोमलस्य याव-
त्कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते
सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २५ ॥

( इति मुखमस्याः समुन्नमयितुमिच्छतेि । शकुन्तला परिहरतेि नाट्येन )


नमनुमानयिष्ये । अपरिक्षतेति । सुन्दरीति व्याख्यातचरम् । न विद्यते परिक्षतं यस्य स चासौ कोमलश्च । अथ चापरिक्षतं भ्रमरादिना कोमलं च तस्य नवस्य प्रथमास्वाद्यस्य | अथ च प्रथमविकसितस्य कुसुमस्येव तवास्य सुधासहोदरस्य मत्सुकृतोपचयलभ्यस्याधरस्य पिपासता पातुमिच्छता षट्पदेन भ्रमरेणेव मया सर्वदैताचित्तेनाधुना धन्यतरेण सदयं यावद्रसो गृह्यतेऽधरपानं क्रियत इति । यावदित्यवघौ । तदनन्तरं मोक्ष्यामीति भावः । सदयमित्यनेन बालालारलनकौशलं ध्वनितम् । श्लेषवाच्योपमा । स्यस्ये इति सदसुन्देति छेकवृत्त्यनुप्रासाः । मालभारिणी वृत्तम् । तल्लक्षणं तु-‘विषमे ससजे नगे नगे नाविषमस्त्र्येण तु मालभारिणीयम् । ’ इति } समुन्नमयितुमिति त्रिपताकस्योत्तानाभ्यां मध्यमातर्जनीभ्यां चिबुकदेशगताभ्यामिति ज्ञेयम् । नाट्येनेति परावृत्तेन शिरसा विनिगूहितेनाधरेण ! तल्लक्षणं तु - ' पराङ्मुखीकृतं शीर्षं परावृत्तमुदीरितम् । तत्कार्यं कोप-


मनः सूच्यते तेन धृतिः । भवत्वियंगकारे मोक्षामीति भविष्यदर्थेन इदानीं न मुंचामि किंतु प्रकृतकार्यनिर्वाहानंतरं मोक्ष्यामीति व्यज्यते । अपरिक्षतेत्वादि । अपरिक्षतकोमलस्यानुपहतकोमलस्य केनाप्यननुभूतस्येति यावत् । नवस्य नूतनस्य सद्योविकसितत्येति यावत् । अनेनाधरपानं प्रत्यादरत्वे हेतुरुक्तः । अधरस्य कुसुमोपमानेनातियार्दवमुच्यते । राज्ञः षट्पदोपमानेन भ्रमरस्य यथा बहुकुसुमरसास्वादनवैदग्ध्यं तथा स्वस्यापि बहुपद्मिन्र्र्जातिस्त्रीसंभोगचातुरी सूच्यते । पिपासता पातुमिच्छता मयेत्यनेन " रत्नहारी तु पार्थिवः ” इति न्यायेन लोकोत्तरं चिरप्रार्थितमुपनतं वस्तु कथं मया परित्याज्यमिति द्योत्यते । अस्याधरस्येति निर्देशेन तद्ग्रहणे प्रवृत्तिः सूच्यते । सुंदरीत्यनेन गाढालिंगनाभिलषः सूच्यते । देहसद्भावस्य त्वत्प्रात्या सफलत्वमिति भावः । अत एव सुंदरीत्युक्तम् ? नाट्येन परिहरतीत्यनेन नाटकस्याभिनेयत्वादभिनयस्य संभोगशृंगरस्यासभ्यत्वात्तत्र परिहार इत्यवगंतव्यम् । नाटकस्य संभोगवर्णनेन रसभंगप्रसंग: । तदुक्तं । " संरोधं भोजनं स्नानं संभोगं चानुलेपनम् । अंबरप्रहृणादीनि प्रत्यक्षाणि न निर्दिशेत् ॥ " इति।