पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ८ )
[ प्रथमः
अभिज्ञानशाकुन्तलम् ।


माद्यर्थम् । तेनाणिमादिभिरित्यर्थः । प्रपत्रः सेवितोऽभतु व इति । एकश्चकारः सर्वसमुच्चये । अन्त्यदीपकालंकारः । अणिमादयश्च ‘अणिमा महिमा चैव लघिमा गरिमा तथा । ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ॥ इति । अनेन चात्र कविना रीतीनां मुख्यतमा सर्वगुणाश्रया ! वैदर्भि रीतिरुपक्षिप्ता । यदाह वामनः-'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चिस्वरसौभाग्या वैदर्भीं रीतिरिष्यते ॥ ’ इति । तदुक्तक्रमेण च । ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धुगुणाः त एवार्थगुणा इति च । तत्र बन्धस्य गाढत्वमोजः | तत्प्रकटमेवेह । शैथिल्यं प्रसादः । साम्यमुत्कर्षश्चेति । या सृष्टिः स्रष्टुराद्येति गाढत्ववम् । वहति विधिहुतमिति शैथिल्यस् । एवं साम्यलक्षणः प्रसादः । मसृणत्वं श्लेषः । यथा वहति विधिहुतं येत्यादि । एवमन्येऽपि बन्धुगुणा अनुसर्तव्याः । अर्थगुणाश्च । अर्थस्य


कान्ताविषया रतिरीत्युक्त्वात् । प्रकृते दैवविषयो भक्तिभावः सूचितः। श्लिष्टमयमवर्णसंदर्भलक्षणा रससहिता वैदर्भी रीतिः । तदुक्तं - " बन्ध्पारुष्यरहिता शब्दकाठिन्यवर्जिता । नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥ 'इति सृष्टिः स्रष्टुः हुतं हविः प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्न इत्यादौ स्वरवैसादृश्येऽपि व्यंजनसाम्यलक्षणोऽनुप्रासः । किं च । सृष्टिः स्रष्टुरित्यादौ वृत्तिलक्षणानुप्रासश्च। उक्तं च-

" अनेकेषां वर्णानां सकृत्पुनः श्रवणं वृत्त्यनुप्रासः " इति । प्राणिनः प्राणवन्त इत्यत्र

पदद्वयेऽपि प्राणिशब्दप्रतिपत्तावपि प्राणिनो जनाः प्राणवंतो जीववन्त इति तात्पर्यमेदाल्लाटानुप्रासः । तदुक्तम्-‘‘ शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् । स काव्यतात्पर्यविदां लाटानुप्रास इष्यते " इतेि अष्टमूर्तित्वलक्षणासाधारणस्वरूपवर्णनात्स्वभावो


एकश्चकारः सर्वसमुच्चये । अन्त्यदीपकालंकारः । अणिमादयश्च ‘अणिमा महिमा चैव लघिमा गरिमा तथा । ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च ॥ इति । अनेन चात्र कविना रीतीनां मुख्यतमा सर्वगुणाश्रया ! वैदर्भि रीतिरुपक्षिप्ता । यदाह वामनः-'अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चिस्वरसौभाग्या वैदर्भीं रीतिरिष्यते ॥ ’ इति । तदुक्तक्रमेण च । ओजःप्रसादश्लेषसमतासमाधिमाधुर्यसौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धुगुणाः त एवार्थगुणा इति च । तत्र बन्धस्य गाढत्वमोजः | तत्प्रकटमेवेह । शैथिल्यं प्रसादः । साम्यमुत्कर्षश्चेति । या सृष्टिः स्रष्टुराद्येति गाढत्ववम् । वहति विधिहुतमिति शैथिल्यस् । एवं साम्यलक्षणः प्रसादः । मसृणत्वं श्लेषः । यथा वहति विधिहुतं येत्यादि । एवमन्येऽपि बन्धुगुणा अनुसर्तव्याः । अर्थगुणाश्च । अर्थस्य