पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
(२०८)
[तृतीयः
अभिज्ञानशाकुन्तलम् ।

 [१]संख्यौ--(सहर्षम्) साअदं अविलम्बिणो मणोरहस्स । [स्वागतमविलम्विनो मनोरथस्य]

(शकुन्तलाभ्युत्यातुमिच्छति)

 राजा---अलमलमायसेन ।

संदष्टकुसुमशयनान्याशुक्लान्तविसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १९ ॥


स कथं तपतेि दहतीत विरोधाभासश्च । स्वागतमविलम्बिनो मनोरयस्येति नृपत्वलक्षणविषयनिगरणादतिशयोक्तिः । अलमलमति द्विरुक्तिरादरातिशयं ध्वनति । संदष्टेति । यतो गुरुर्महान्परितः सर्वतस्तापः संतापो येषु तानि । अतो विशेषणद्वयविशिष्टानि । ते तव गात्राण्यवयवा उपचारं तत्तद्योग्यव्यवहारकरणं नार्हन्ति । 'गात्रमङ्गे कलेवरे' इतेि विश्वः । दुष्टं लग्नम् । केवलं लग्नं न, अपि तु सम्यग्दष्टम् । केवलं कुसुमं न, अपि तु कुसुमशयनीयं येषु तानि गात्राणामुत्थापने कर्तव्ये कुमुमशय्याप्यङ्गलग्नोत्तिष्ठतीति भावः । आशु शीघ्रं क्लान्तो विसभङ्गस्तद्वत्तेन वा सुरभीणि चारूणि । शीघ्रत्वं च भङ्गापेक्षया । तेन तात्कालिकक्लान्तत्वमुक्तम् । काव्यलिङ्गपरिकरानुप्रासाः । पक्ष उपमा च । भङ्गः क्रिया तस्याः कथं क्लान्तत्वमित नाशङ्कनीयम् । क्रियया तद्वान्पदार्थे लक्ष्यते ।


भवादिति भावः । जीविते नैराश्यं जनयन्नाकारसद्भावे संदिग्धं मां करोनीति यावत् ।अनेग स्वस्यापि शरीरकार्श्यवैवर्ण्यादिप्रदर्शनं कृतम् । अनिशमित्यनेन स्वस्य खक्चंद नादिविषयवैमुख्यं सूच्यते । तेन च सार्वकालिकवदेकतानचित्तत्वेन चंद्रातपमलयमारुतलोकिलछपादीनामसह्यव्यधाकारित्वान्निद्राहारद्यभाव उक्तः । एवकारेण स्वप्रयोजनार्थं न तु मिप्याभाषणं किंतु स्वशरीरकार्श्यवैवर्ण्यादिकमेव प्रमाणमिति ज्ञायते । मामित्यनेन लोकोत्तरबहुस्त्रीरत्नवन्तं सार्वभौमं मामिति व्यज्यते । तेन स्वान्तःपुरस्त्रीभ्यः शकुन्तलाया रुपलावण्याद्यतिशयवत्तया तासु वैमुख्यं सूच्यते । तेन न स्वशरीरकार्श्यादीनामन्तःपुरस्त्रीचिरहो निमित्तं न भवति किंतु त्वद्विरह एव निमित्तमिति ज्ञायते । बलपयतात्यादिदृष्टान्तः । दिवसः सर्वपदार्थप्रकाशकः। दिवा शशांकं खमिव तमोनिरोधकं चंद्रे यथा येन प्रकारेण ग्लपयति म्लापयति विच्छायं कृत्वा स्वरूपदर्शने सदसदबुद्धिं करोति । तथा तदुदयास्तमयाभ्यां विकाससंकोचवतीं कुमुद्वतीं न ग्लपयति किंतु संकोचमात्रं जनयतीति यावत् । साअदमित्यादि । अत्रमनोरथशब्देन तद्विषयो राजा कथ्यते । सन्दष्टेति । सन्दष्टकुसुमशयनानि सन्दष्टानि संसक्तानि कुसुमशयनानि पुष्पास्तरणानि

  1. उभे-(विलोक्य सहर्षे) इति क्क० पु० पा० ।