पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
(२०७)
टीकाद्वयसहितम्।

 राजा-(सहसोपसृत्य)

तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयाति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१८॥


तल्लक्षणं तु-'विवक्षितार्थकलिता पत्रिका लेख उच्यते' इति । तपतीति । तमूनि कृशानेि गात्राणि यस्यास्तस्याः संबोधनम् । मदनस्त्वां तपति तत्रार्थो हेतुः संबोधनपदार्थः । कुशगात्रत्वं स्त्रीत्वं चेति काव्यलिङ्गम् । तनुगात्रीति पुनरुक्तवदाभासश्च । मां पुनः पुरुपं कठिनशरीरमानिशं सर्वदा, अथ च निशाव्यतिरिक्तसमयेऽपि दहत्येव । किमपि नावशेष्यार्थः क्रमेण हेतुत्वेन योज्यः । दृष्टान्तोऽनुप्रासश्च । मदयतीति मदनो हर्षदः ।


सूच्यते । तेन नर्मालापोऽपि दर्शितः त्वयीत्वुक्तमनोरथान्यंगानीति बहुवचनेन कर्णाद्यवयवानां रहस्यश्रवणेनौत्सुक्यकथनेन श्रवणानन्दोऽपि प्रकाशित इति वचिकः श्रृंगारः । शृंगारस्वरूपमुच्यते "देशकालवयोद्रव्यगुणप्रकृतिकर्मणाम् । ज्येष्ठं शृंगं तदस्यास्ति तेन श्रृंगार उच्यते ॥ "सोऽयं त्रिविधः वाचिकनैपथ्यक्रियाभेदतः । वाचिकस्य लक्षणमुक्तम् । "वासोङ्गरागभूषादियोगो नैपथ्यमुच्यते । क्रिया बहुविधा भावक्रीडादिजलकेलयः ॥ वीणानर्तनगानादिसंभोगः स्यात् क्रियात्मकः । संभोगो विप्रलंभश्च श्रृंगारो द्विविधः मृतः । समागमस्तु संभोगः कान्तचोर्दर्शनादिकः ।" आदिशब्दात् परस्परालिगनसंभाषणमाल्यानुलेपनसौभाग्योपवनवासक्रीडादूतासंलापपुष्पापचयजलक्रीडागीतादिश्रवणलीलादिकरणादिरूपो बहुविध उच्यते । विश्रलंभश्रृंगारस्तु "संसृष्टयोर्विप्रलंभो विप्रयोगोऽनुरक्तयोः" स चाभिललापेर्ष्याविरहप्रवासशापज इति पंचविधः । सहसेत्यादि । सहसा हठात् । मदनस्तु मामेव दृढतरं बाधते न तु त्वामिति शकुन्तलाया यदुक्तं तद्वचनासहिष्णुतया हठादुपसर्पणमिति ज्ञातव्यम् । तपतीति । तनुगात्रि हे तत्वंगीत्यनेन गात्रं तु पूर्वमेव कृशं कोमलं च खल्पमपि न व्यथासहनशीलम् । तादृशागात्रस्य स्वनिमित्तकमदनवाधाजनितकार्श्यादिदुःखाद्यनुभवात् । तस्यां स्वस्य दयोत्पत्तिस्तनुगात्रीत्यनेन दयाविषकत्वं सूच्यते । काकुशब्दधर्मः तस्य लक्षणं पूर्वमेवोकम् । अनेन निर्ग्घृणेति पूर्वं शकुन्तलोक्तस्य उत्तरमुक्तमित्यवगन्तव्यम् । मदनः रूपलावण्यादिसाम्येन मम शत्रुरिति यावत् । त्वां तपति मत्संबधरूपतया विशेषरूपरन्ध्रे सति सार्वकालिकचिंतितविविधमनोरथविषयनायकालिंगनचुम्बनाद्यसंभवात्सर्वावयवानां कोकिलालापचंद्रातपमलयमारुतादिश्रवणस्पर्शाद्वेदनां करोति । तपतीत्यनेन मदनस्य तादृशः कोपावेशस्त्वयि नास्ति मत्संबंधमात्रहेतुनान्तस्तापं । जनयन् तवाकृतिं न नाशयति किंतु तापमात्रकर इति भावः । मां पुनः मां प्रत्यन्यथा दहति केवलतापकरणे पुनर्जीविष्यतीति भस्मसात्करोति । मरनसव्रीचीनदारुणदुःखानु