पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ७ )
टीकाद्वयसहितम्।


दानम् । ततस्तदुत्पनस्य तेजसः । ‘अभ्द्योऽग्निः इति स्मृतेः । तत्रापि हुतं हविर्वहतीति प्रकारेणोक्तेः केन हुतमिति प्रसङ्गाद्यजमानस्य । तेजः प्रसङ्गाद्यज्ञादौ कालस्यापेक्षणीयत्वाच्च सूर्यचन्द्रमसोः । ततः ‘तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ नखैर्हिरण्यगर्भस्तु तदण्डमकरोद्विधा । ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ॥’ इति स्मरणाद्यज्ञादौ च देवतास्मारकत्वेन शब्दमयस्य मन्त्रस्थदशस्य भूम्यादेरधिकरणत्वेन चापेक्षमाणत्वाद्द्योभूम्योः । ततः सर्वप्राणभूतन्वान्सर्वोत्कृष्टस्य वायोः । अथ च या स्रष्टुराद्य सृष्टिः सावत्विति प्रत्येकं संबन्धः । यत्तदोर्नित्यसंबन्धादार्थेन तच्छब्देन संबन्धः । ये द्वे इत्यत्रावतामिति विभक्तिविपरिणामः । अष्टवाक्यपरिपूर्त्यर्थमेव द्वयोरेकत्रोक्तिः। ईष्ट इति ईशः । अत एव ताभिः प्रसिद्धाभिः प्रत्यक्षाभिर्मुर्तिमतीभिरष्टाभिः। तनुशब्देनाणु तेन चाणिमा । बहुवचन


संबद्धः संबन्धप्रकर्षश्च पृथिव्याद्युत्पत्तिस्थितिमंगानां परमेश्वरात्तत्वात् । अथवा " सर्वे गत्यर्थाः ज्ञानार्था: " इति विद्यमानत्वाक्षित्यादिर्भिः कार्यभूतैः प्रपन्नः प्रकर्षेण ज्ञात इति कवेरभिप्रायः ॥ तनुरेति ॥ यतः परमेश्वरचेतनाचेतनमन्तःप्रविश्य व्यापारयति यतः पृथिव्यादीनां तत्तनुत्वव्यपदेशः कृतः । वो युष्मान् श्रेयस्करभक्तिश्रद्धाद्यतिशयपूर्वकं व्याख्यातृश्रोतॄनिति यावत् । सम्बोधनार्थसारे हि युष्मदर्थः तेषामेव संबोधनयोग्यत्वात् । अवतु रक्षतात् रक्षणं नाम हितप्रापणमहितपरिहरणं च । एवंविधाभितनुभिरुपेत इति रक्षणादिविशेषणाभिप्रायेण । पृथिव्यादिमध्ये यस्य यत्सुखसाधनं तत्संपादनं यस्य यदनिष्टं तन्निवारणं च भवत्विति व्यज्यते । तेन तादृशस्तनो व्यंग्यत्वेन वस्तुध्वनिः विशेषणसाभिप्रायत्वेन परिकरालंकारस्य व्यङ्ग्यत्वेन नालंकारध्वनिः । उक्तं च "अलंकारः परिकरः स्वाभिप्राये विशेषणे “ इति कवेः सर्वात्मकशिवविषयभक्तिभावस्य व्यंग्यत्वेनासंलक्ष्यक्रमो भावध्वनिः । असंलक्ष्यकसव्यंग्यस्तु रसादिष्वविर्भवति । तदुतं श्रृंगारतिलके - "रसभावतदाभासभावशान्त्यादिरक्रमः । भिन्नो रसालंकारादलंकार्यतया स्थितः ॥” इति एवमत्र श्लोके वस्त्वलंकाररसभेदेन त्रिधा ध्वनिरिति ध्वनिप्रस्थानविदः कथयन्ति । तथैवात्र श्लोके कवेर्भक्तिभावस्य शिव आलंबनाविभावः उद्दीपनविभवास्तु संसारनित्यतादर्शनं परमेश्वरमहिमश्रवणात्तत्कारणकसक्लपुमर्थदानशक्तिमत्वाद्यश्च । अनुभावास्तु तदनुस्मरणसमनन्तरजनितरोमोद्गमानंदबाष्पमुखविकासादयः । संचारिणोऽपि तद्विषयदैन्यवचनचिन्तास्मरणहर्षविबोधादयः । एवंविधविभावानुभावसंचारिपरिपुष्टो भक्तिभावः प्राधान्येन व्यज्यत इत्यस्योत्तमकाव्यता प्रकाश्यते । रतिस्तु विषयभेदाद्बहुविधा भवति । दैवगुरुनृपाचार्यादिविषया भक्तिः,