पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
(२०५)
टीकाद्वयसहितम्।

यितुं शक्तो न । अतस्तदूपाया ममाङ्गानि तापयतीतेि भाव इति चाटूक्तिः । प्रत्यनीकालंकारः । 'प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम्' इति तल्लक्षणात् । स्वं त्वेतादृशो निर्घृणो यस्त्वर्थे पीड्यमानामपि मां न रक्षसीति । अथ च त्वयि विषये वृत्ता जाता मनोरथा येषां तानि । आलिङ्गनं भुजयोर्मनोरथः त्वत्कान्तिझरप्रवाहपानं तु चक्षुषोः, त्वद्वचनामृतसरसीनिमज्जनं च श्रवणयोः, त्वन्मुखसरोजश्वासाघ्राणं नसोः, शशाङ्ककोमलत्वदङ्कारोहणं नितस्वस्य, त्वत्करतलमेलनं कुचयोरित्यादि । एवंभूतमनोरथानि ममाङ्गानेि कामोऽधिकं तापयाति । त्वं त्वेवं निष्कृपो यत्स्वभक्तान्येवं परेण ताप्यमानान्यापि सहसे तत्व हृदयमहं न जाने क्षत्रहृदयमेत न जाने । परैः पीड्यमानं क्षत्रियः परित्रायते, स्वभक्तं तु सुतरामित्युपालम्भः । कामो ममाङ्गान्यत्यर्थमधिकं तापयति, तव पुनर्हृदयमत्यर्थ न तापयतीत्यहं जाने । यतस्त्वं दिवसे निष्कृपो लोकादिभयात्, एवं रात्रावपि निष्कृपोऽसि यदभिसरणं नाकार्बीरिति चोपालम्भः। अथ च त्वं तु केनाभिप्रायेण व्यवहरसति तव हृदयं लक्षणया हृदयमभिप्रेयं न जाने । कामः पुनर्मम मत्संबन्धी सुहृदिति भावः । यत्त्वयि वृत्तमनोरथान्यङ्गानि तापयति । किमिते तस्मिन्नीदृशे शठेऽनुरक्तासीति तापं दुःखं दत्वा शिक्षयतीति बौपालम्भः। एवमकृतार्थरतिं प्रत्येतादृशो-


कथं त्वत्संबंधिनं मां न प्रहरेदिति भावः । दिवारात्रमपीत्यनेन मन्दमारुतकोकिलालापचंद्रकिरणादीनामसह्मदर्शनतया परमोद्दीपनविभाव उक्तः । तेन मदनस्य चूवादिसामप्रीसंपत्त्या वलेत्कर्ष उक्तः । ममांगनीत्यनेन मदनस्तु त्वद्रूपलावण्यादीनि । दृष्ट्वा तव पुरस्तात्स्थातुं व्रीडितः सन् त्वय्यनुरक्ता मामेव बाधते । यदि मामिव मदनस्त्वामपि बाधेत तदा मदीयं दुःखं ज्ञास्यसीति भावः । अनेन मदनस्य पक्षपातित्वं सूच्यते । अङ्गानीति बहुवचनेन मदनस्य सर्वलक्ष्येषु सावधानता ध्वन्यते । अनेन कर्णहस्ताद्यवयवानां रहस्यश्रवणगाढालिंगनाधौत्सुक्यं ज्ञाप्यते । अत्र श्लोके त्रयस्त्रिंशद्व्यभिचारिभावाः । अष्टौ सात्विकाः अष्टौ स्थायिनः आहत्यैकोनपंचाशत्भावाश्च यथासंभवं प्रतीयन्ते । तथाहि-तवेति स्मरणम् । हृदयं न जान इत्यभिप्रायपरिज्ञानाभावाद्भयम् । हृदयपारिज्ञानाभावेऽपि लेखः कृथं प्रेष्यत इति शंका । तव हृदयं न जान इति तव मनः स्थिरानुरागं वा नवेति वितर्कः । भम हृदयं स्थिरानुरागमिति व्यंगेन लज्जाभावाच्छांतिः । मियप्रार्थनया चपलता । तव हृदथं न जान इति त्वच्चित्तपरिज्ञानार्थं चतुराः सख्यो न संतति सखीष्वसृया । तत्रेति दुष्यन्तादिनामग्रहणाभावादवहिंत्थम् । हृदयपरेिज्ञानाभावेऽपि लेखप्रेषणाद्धासः । तव हृदयं न जान इति विषादः । तव हृदयं न जान