पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( २०० )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 राजा--( सहर्षम् )

 अयं स ते तिष्ठति संगमोत्सुक
  विशङ्कसे भीरु यतोऽवधीरणाम् ।
 लभेत वा प्रार्थयिता न वा श्रियं
  श्रिया दुरापः कथमीप्सितो भवेत् ॥ १५ ॥


विशेषणं हेतुत्वेन योज्यम् । अयमिति । हे भीरु, अनेन तिरस्कारशङ्कासंभावना व्यज्यते । यतो यस्मान्मल्लक्षणाज्जनादवधीरणां तिरस्कारं [ वि ] शङ्कसे । स्यादवधीरणाशङ्का यदि केवलं मत्प्रार्थनैव त्वदीयप्राप्तिहेतुः स्यादिति भावः । सोऽयमिति प्रत्यक्षेण निर्दिशति । सुन्दरीभि यं प्रतेि विधेर्हेतुत्त्वे योज्यम् । ते तव संगमोत्सुकस्तष्ठतीति विशिष्टस्य विधेयत्वम् । त्वत्प्रार्थितः कथं दुर्लभो भविष्यामीत्याशयः । पूर्वापरचरणयोर्व्यत्ययपाठेनोद्देश्यप्रतानिर्देश्यप्रक्रमभङ्गः परिहरणीयः । प्रार्थयिता पुरुषः श्रियं लभेत वा न लभेत वा । श्रिया पुनरीप्सितः प्रार्थितः कथं दुरापो दुर्लभो भवेत् । अयमर्थान्तरन्यासः । व्यत्ययपठितस्य पूर्ववाक्यस्य पूर्व वाक्यं समर्थकम् । तादृगुत्तरस्योत्तरं समर्थकमति विवेकः । नन्वत्र सामान्यस्य समर्थकत्वं वक्तव्यम् । श्रीशब्दस्य विशेषवाचित्वादत्र कथं तन्निर्वाह इति चेदुच्यते- “लक्ष्मीसरस्वतीधीत्रिवर्गसंपद्विभूतिशोभासु । उपकरणवेषरचनागुणेषु सरलद्रवे च कथिता श्रीः॥" इति व्याडिकोशादत्रातिशयोक्त्या शोभाभारतीलक्ष्मीधीवेपविरचनाविभूतित्रिवर्गसंपत्तीनामेकत्वेनाध्यवसानात्सामान्यवाचकत्वम् । अतिशयोक्तेः सर्वालङ्कारमूलत्वमाकरेषु प्रसिद्धम् । श्रुत्तिवृत्तिच्छेकानुप्रासाः 'कथं न लभ्येत नरः श्रियार्थितः' इतेि पठित्वा पर्यायप्रक्रमभङ्गः परिहरणीयः । वंशस्थं वृत्तम् ।


अयं स त इत्यादि। भीरु भयशीले । अत्र भीरुपदं साभिप्रायकं वस्तुतस्तु धार्ष्ट्यमेव । सख्योरभिप्रायज्ञानार्थं भीरुत्वप्रकटनमिति यावत् । यतः यस्मादवधीरणां न्यक्कारं विशंकसे परयुद्धेप्रत्यक्षत्वात् । तस्याप्यरण्यवासिन्यामनागरिकायां मय्यनुरागोऽस्ति वा न वेति संदेहे सति स्वयमेवाभिसरणे क्रियमाणे औदासीन्यं भवेदिति न्यक्कारं विशेषेण तर्कयसि । सोऽयं ते संगमोत्सुकः सन् तिष्ठति । तव रूपलावण्याद्यतिशयादतःपुरयुवतिषु वैमनस्यं प्राप्य त्वद्रूपाहरणे ऋषिशापरूपानर्थं मत्वा संगमः कदा भविष्यतीति निकट एव वर्तत इत्यर्थः । तत्र दृष्टान्तमाह- लभेत वा प्रार्थयिता न वा श्रियमित्यादि । श्रियं संपदं प्रार्थयिता


१ आत्मगतम् इति क्व० पु० पा० ।