पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( १९६ )
[ तृतीयः
अभिज्ञानशाकुन्तलम् ।


 राजा---किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।

 अनसूया---को उण उवाओ भवे जेण अविलम्विअं णिहुअं अ सहीए मणोरहं संपादेह्म । [ कः पुनरुपायो भवेद्यनाविलाम्बितं निभृतं च सख्या मनोरथं संपादयावः ]

 प्रियंवदा -णिहुअं त्ति चिन्तणिज्जं भवे । सिग्धं त्ति सुअरं । [ निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।]

 अनसूया---कहं विअ । [ कथमिव ]

 प्रियंवदा-णं सो राएसी इमस्सिं सिणिद्धदिट्ठीए सुइदाहिलासो इमाई दिअहाइं पजाअरकिसो लक्खीअदि । [ ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते ॥ ]

 राजा--सत्यमित्थंभूत एवास्मि । तथा हि ।


नायिकायाः कर्तृत्वमुक्तम् । उत्तरत्र नायकस्येति विशेषः । द्विदेवत्वाद्विशाखयोर्द्वित्वम् । युक्तमेवैतयोरेतस्या अनुमोदनमिति भावः । एतदभिप्रायमेव विशाखयोर्द्वित्वम् । शशिलेखात्वेन स्त्रीलिङ्गनिर्देशश्च । विशाखे शशाङ्कलेखा चाप्रस्तुता । तासां वचनादप्रस्तुतप्रशंसा । तया च सख्योः शकुन्तलायाश्च प्रकृतानां योग्यसमागमत्वेन समालंकारो व्यज्यते । कः पुनरुपायो भवेद्येनाविलम्बितं शीघ्रं निभृतं गुप्तं च सख्या मनोरथं संपादयावः । निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् । कथमिव | ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते । उक्तस्य पुरुषत्वाद्विशेषतो राजत्वात्तत्रापि स्वयं दुष्यन्त इति विषयनिवृत्तित्रपानाशलक्षणे अवस्थे एनं प्रति न वर्णिते । अधीरत्वे-


न्यास्तवेति यावत् । अतिमुक्तलता माधवीलता। निहुअमिति । निभृतं गूढम् अप्रकाशमिति


१ चिंदा ( चिंता ) इति क्व० पु० पाठः । २ एसो ( एषः ) इति क्व० पु० पा० । ३ इमाइ दिअहाइ ( इमानि दिवसानेि ) इति क्व० पु० पा० । ४ अस्याम् इति क्व० पु० ।।